Enter your Email Address to subscribe to our newsletters

जयपुरम्, 30 दिसंबरमासः (हि.स.)।
धर्मनगरी हरिद्वारे वैरागीद्वीपे आगामिजनवरीमासे आयोजितव्ये वन्दनीया माताजी भगवतीदेवीशर्मा जन्मशताब्दी-समारोहे जयपुरनगरेभ्यः अन्येभ्यश्च राजस्थाननगरभ्यः जनाः अपि सहभागिनो भविष्यन्ति। आयोजनस्य सज्जाः युद्धस्तरेण प्रवर्तन्ते। प्रदेशस्य विविधान् अञ्चलान् निर्यात्य गायत्री-परिवारस्य बहवः जनाः तत्र श्रमदानं कुर्वन्ति।
गायत्री-परिवार-राजस्थानस्य मुख्यकार्यकारिणी ओमप्रकाश-अग्रवालनामकः अवदत् यत् एषः ऐतिहासिकः प्रेरणादायी च कार्यक्रमः केवलं आध्यात्मिकदृष्ट्या न, अपि तु सांस्कृतिक-सामाजिकस्तरयोः अपि अतीव महत्वपूर्णः सिद्धिष्यते। एतद् दृष्ट्वा समग्रः कार्यक्रमस्थलः सुव्यवस्थितः, आकर्षकः, गरिमामयस्वरूपयुक्तश्च क्रियते। कार्यस्थले भूमिपूजनं कृतम्। अत्र 19 तः 23 जनवरीपर्यन्तं भवन्ति इति कार्यक्रमाणां घोषणा अपि कृताः।
आगन्तृणां स्वागताय वैरागीद्वीपस्य मुख्यप्रवेशस्थले गायत्रीतीर्थ-शान्तिकुञ्जस्य विशिष्टवास्तुकलानुगुणं आध्यात्मिकविषयाधारितं विशालं भव्यं च प्रवेशद्वारं निर्मितं सम्पन्नं च जातम्। तत् प्रवेशद्वारं शान्तिकुञ्जस्य प्रतीकं साधनायाः संस्कारस्य सेवाभावस्य च रूपेण विराजते, यत् आगन्तृभ्यः प्रथमदृष्ट्येव आध्यात्मिकानुभूतिं ददाति।
जन्मशताब्दी-समारोहे देश-विदेशेभ्यः बहुसङ्ख्येन श्रद्धालवः साधकाः कार्यकर्तारः गणमान्याः अतिथयश्च सहभागी भविष्यन्ति। तत् दृष्ट्वा प्रवेशद्वारस्य सहितं मंचः पण्डालाः अलङ्करणम्, प्रकाशव्यवस्था, अन्याश्च आधारभूत-सुविधाः योजनाबद्धरीत्या विकसिताः भवन्ति।
अग्रवालेन उक्तं यत् अयं समारोहम् केवलं कार्यक्रमः न, अपि तु युगदृष्टा-विचारधारायाः जीवनमूल्यस्य च समाजपर्यन्तं प्रसारणस्य महापर्व भविष्यति।
---------------
हिन्दुस्थान समाचार