जापानम् अतिक्रम्य भारतं विश्वस्य चतुर्थं महत्तमम् अर्थतन्त्रम् अभवत्
नवदिल्ली, ३० दिसम्बरमासः (हि.स.)। भारतदेशः अद्य ४.१८ ट्रिलियन-अमेरिकी-डॉलर-परिमितेन समस्त-गृह-उत्पादेन (जीडीपी) विश्वस्य चतुर्थं महत्तमम् अर्थतन्त्रम् अभवत्। एतत् स्थानं भारतदेशेन जापानम् अतिक्रम्य प्राप्तम्। एतया उपलब्ध्या सह एव भारतं २०३० तमे वर्
आर्थिक विकास दर के लोगो का प्रतीकातमक चित्र


नवदिल्ली, ३० दिसम्बरमासः (हि.स.)। भारतदेशः अद्य ४.१८ ट्रिलियन-अमेरिकी-डॉलर-परिमितेन समस्त-गृह-उत्पादेन (जीडीपी) विश्वस्य चतुर्थं महत्तमम् अर्थतन्त्रम् अभवत्। एतत् स्थानं भारतदेशेन जापानम् अतिक्रम्य प्राप्तम्। एतया उपलब्ध्या सह एव भारतं २०३० तमे वर्षे जर्मनीदेशम् अपि अतिक्रम्य तृतीयं महत्तमम् अर्थतन्त्रं भवितुं सज्जः अस्ति। अद्य अमेरिकादेशः विश्वस्य महत्तमं तथा चीनदेशः द्वितीयं महत्तमम् अर्थतन्त्रं वर्तते।

वित्तीय-वर्षे २०२५–२६ द्वितीय-त्रैमासिक्यां ८.२ प्रतिशत-वृद्धिःवित्तीय-वर्षस्य २०२५–२६ (जुलाई–सितम्बर) द्वितीय-त्रैमासिक्यां भारतस्य वास्तविक-जीडीपी-वृद्धिदरः ८.२ प्रतिशतम् अभवत्, यः पूर्व-त्रैमासिकीभ्यः अपेक्षया अधिकः सुदृढः आसीत्। प्रथम-त्रैमासिक्यां ७.८ प्रतिशतः तथा गत-वित्तीय-वर्षस्य २०२४–२५ चतुर्थ-त्रैमासिक्यां ७.४ प्रतिशत-वृद्धिः अभिलेखिता आसीत्। एषा वृद्धि विश्वव्यापिन्याम् अस्थिरतायामपि भारतीय-अर्थव्यवस्थायाः स्थैर्यं तीव्र-विकासं च सूचयति। भारतः पूर्ववत् एव विश्वस्य शीघ्रतम-वर्धमानम् अर्थतन्त्रम् इति गण्यमानः अस्ति।

अन्ताराष्ट्रिय-संस्थाभिः अनुमोदिता प्रगति

भारतीय-अर्थव्यवस्थायाः अस्याः वृद्धेः मुख्य-कारणं वैयक्तिक-उपभोगः सुदृढ: च आन्तरिक-याचना इति विश्लेषकाः मन्यन्ते। केन्द्र-सर्वकारस्य कथनानुसारं देशे बेरोजगारी-दरः अवनमति, माहर्गं च नियन्त्रण-सीमायां स्थिताः सन्ति। विश्व-धनागार:, अन्ताराष्ट्रिय-मुद्रा-कोषः (IMF), मूडीज-रेटिङ्ग्स इत्यादयः अन्तरराष्ट्रीय-संस्थाः अपि भारतीय-अर्थव्यवस्थां प्रति सकारात्मकान् अनुमानान् व्यक्तवन्तः। एशियाई-विकास-धनागारेण (ADB) वित्तीय-वर्षे २०२५–२६ भारतस्य जीडीपी-वृद्धि-अनुमानः ७.२ प्रतिशतं यावत् वर्धितः।भारतीय-रिज़र्व-धनागारेणन अपि वृद्धि-अनुमानः वर्धितःभारतीय-रिज़र्व-धनागारेण (RBI) चलित-वित्तीय-वर्षे २०२५–२६ कृते जीडीपी-वृद्धि-अनुमानं ६.८ प्रतिशतात् ७.३ प्रतिशतं यावत् वर्धितः। रिजर्व-धनागारस्य मतानुसारं सुदृढा आन्तरिक-याचना, आयकर-जीएसटी-संशोधनं, अपक्व-तैलस्य मृदुलाः मूल्याः, सर्वकारस्य प्रारम्भिक: पूँजी-व्ययः तथा अनुकूलाः मौद्रिक-स्थितयः—एते सर्वे अपि अस्याः तीव्र-वृद्धेः प्रमुखानि कारणानि सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता