Enter your Email Address to subscribe to our newsletters

ग्वालियर-नगरम्, ३० दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियर-जनपदस्य यूनां रोजगार-अवसरान् उपलब्धं कारयितुं मुख्यमन्त्री डा.मोहनयादवस्य चिन्तनानुगुणम् अद्य सोमवासरे प्रातः एकादशवादनात् गदाईपुरा-रेडीमेड-गार्मेण्ट्-उद्यान-परिसरे स्थिते जनपद-रोजगार-कार्यालये एकदिवसीयः रोजगारः स्वरोजगारः, तथा अप्रेन्टिसशिप्-युवा-सङ्गमश्च आयोज्यते।
जनपद-रोजगार-कार्यालयेन, जनपद-व्यापार-उद्योग-केन्द्रेण तथा शासकीय-औद्योगिक-प्रशिक्षण-शालया संयुक्त-तत्त्वावधाने आयोजितेऽस्मिन् रोजगार-मेलापके आकर्षक-वेतनेषु वैयक्तिक-क्षेत्रस्य प्रायः द्वौ-दशकौ निर्माण्यः चेतुम् आगच्छन्ति।
जनपद-रोजगार-कार्यालयेन सूचितं यत् युवा-सङ्गमे जनान् चेतुम् आगच्छन्तीषु निर्माणीषु
क्विक् आई.टी.सॉल्यूशन-इन-कन्सल्टेन्सी (ग्वालियरनगरम्),
लू-मैक्स् प्रा. लि.(मयराष्ट्रम्),
डिफेन्स्-मैनेजमेण्ट्-डेवलपमेण्ट्-इण्डिया-प्रा.लि. (रायबरेली, उत्तरप्रदेशः),
गरुणः २४×७ सिक्योरिटी-सर्विसेज् (ग्वालियरनगरम्),
हिन्दुस्तान-ऑटो-स्पेयर-पार्ट्स्-प्रा. लि. (लखनऊ, उ.प्र.),
एस.बी.आई. इन्श्योरन्स(ग्वालियरनगरम्),
पेटीएम-सर्विस-प्रा. लि.(ग्वालियरनगरम्),
ब्लिकिट् (ग्रेफर्स) प्रा.लि. (हरियाणा),
चेकमेट-सर्विस-प्रा. लि. (गुजरातप्रदेशः),
टाटा-स्ट्राइव-स्किल-डेवलपमेण्ट-(पडाव, ग्वालियरनगरम्),
आई-सेक्ट् (ग्वालियरनगरम्),
जमुना-ऑटो-प्रा. लि. (मालनपुरः),
ए.एफ. मोटर्स-प्रा. लि.-(ग्वालियरनगरम्),
न्यू-मैक्स-मेनेजमेण्ट-प्रा.लि.-(हरियाणा),
रोकमेन-इण्डस्ट्री-प्रा.लि.-(पञ्जाब/लुधियाना)
इत्यादयः सन्ति।
एतैः अतिरिक्तं जे.बी.मंगाराम-फूड-प्रा.लि.(ग्वालियरनगरम्), जे.बी.एम-प्रा.लि. (अहमदाबादनगरम्), इण्टरफेस-माइक्रो-सिस्टम्स-(गुरुग्रामः), टाटा-ऑटो-कॉम -सिस्टम्स-प्रा.लि.-(अहमदाबादनगरम्), रविया-वर्कफोर्स-प्रा.लि.-(लखनऊ), जॉब्स-फेयर-नाउ-प्रा.लि.(भोपाल–इन्दौर–दिल्लीनगरम्) तथा टीमलीस-प्रा.लि. (दिल्ली) अपि सम्मिलिताः सन्ति।
एतेषु पदेषु भविष्यति नियुक्तिः
अस्मिन् रोजगार-मेलापके १८ वर्षात् ५० वर्षपर्यन्तं वयसि स्थिताः युवानः सहभागिनः भवितुं शक्नुवन्ति। चितेभ्यः युवभ्यः वार्षिकं ३,६०,००० रूप्यकात् ६,००,००० रूप्यकपर्यन्तं वेतनं प्रदास्यते। काश्चन निर्माण्यः मासिकं १०,००० रूप्यकात् ३२,००० रूप्यकपर्यन्तं वेतनमपि दास्यन्ति।
अस्मिन् मेलापके डिप्टी-मैनेजर-असिस्टेण्ट-मैनेजर-सिक्योरिटी-गार्ड-ट्रेनी-ऑपरेटर-मशीन्-ऑपरेटर-रिलेशनशिप-मैनेजर-इलेक्ट्रीशियन-लाइफ-मित्रा-अप्रेन्टिसट्रेनी-सेल्सएग्ज़िक्यूटिव-फील्डसेल्स-एग्ज़िक्यूटिव-कार्यालयप्रबन्धन-सिक्योरिटीप्रबन्धन-स्टोरकीपर-कार्यालयसहायकः-हेल्पर-सुपरवाइज़र-टेलीकॉलर-चालक-सङ्गणक-सञ्चलक-श्रमिक-इत्यादिपदेषु विभिन्न-क्षेत्रेषु नियुक्तयः भविष्यन्ति।
आवश्यक-कर्गदानि
प्लेसमेण्ट-ड्राइव-मध्ये सहभागितायै युवभिः समस्त-परिचयपत्राणि, रोजगार-पञ्जीकरण-क्रमाङ्कः, शैक्षणिक-योग्यता-सम्बद्धाः प्रमाणपत्राणि तथा जीवनवृत्तेन सह उपस्थातव्यं भविष्यति।
रोजगार-मेलापके उपस्थितानां युव-युवतीनां कृते कार्यालयेन किमपि यात्रा-भत्तं न देयम्।
हिन्दुस्थान समाचार / Dheeraj Maithani