स्वास्थ्य मंत्री भिकियासैंणमार्गदुर्घटनायाम् आहतानां समुचिताय उपचाराय दत्तो निर्देशः
देहरादूनम्, 30 दिसंबरमासः (हि.स.)। उत्तराखण्डस्य स्वास्थ्यमन्त्री अल्मोड़ा जनपदस्य प्रभारीमन्त्री च डॉ धनसिंहरावतः भिकियासैण विनायक मोटरमार्गे जातस्य भीषणमार्गदुर्घटनायाः घातितानां चिकित्सायां कस्यापि प्रकारस्य न्यूनता मा भवेत इति निर्देशान् अदात्।
मंत्री धन सिंह रावत।


देहरादूनम्, 30 दिसंबरमासः (हि.स.)। उत्तराखण्डस्य स्वास्थ्यमन्त्री अल्मोड़ा जनपदस्य प्रभारीमन्त्री च डॉ धनसिंहरावतः भिकियासैण विनायक मोटरमार्गे जातस्य भीषणमार्गदुर्घटनायाः घातितानां चिकित्सायां कस्यापि प्रकारस्य न्यूनता मा भवेत इति निर्देशान् अदात्। मन्त्री अवदत् यत् गंभीररूपेण घातितान् यात्रिकान् एयरलिफ्ट कृत्वा एम्स ऋषिकेशम् प्रेषितवन्तः अन्ये च घातिताः निकटस्थेषु स्वास्थ्यकेन्द्रेषु प्रथमिकचिकित्सां प्राप्तवन्तः। मन्त्री एम्स ऋषिकेश्, अल्मोड़ा मुख्यचिकित्साधिकारिणे हल्द्वानी चिकित्सामहाविद्यालयस्य प्राचार्यं च घातितानां चिकित्सायां समग्रं सहयोगं दातुं निर्देशितवान्। सः अवदत् यत् दुर्घटनावृत्तेः सूचना लब्धमात्रेणैव स्थानीयप्रशासनं स्वास्थ्यविभागं च सतर्कीकृतवन्तः येन सर्वेभ्यः घातितेभ्यः शीघ्रं यथोचितं च उपचारं दातुं शक्यं जातम्। मन्त्री सततं प्रशासनात् स्वास्थ्यविभागाच्च घातितानां स्वास्थ्यसम्बद्धं प्रतिपुष्टिं प्राप्नोति।

हिन्दुस्थान समाचार