प्रधानमन्त्रीनरेन्द्रमोदी रूसदेशस्य राष्ट्रपति-आवासं लक्ष्यीकृत्य प्रकाशितासु वार्तासु चिन्तां व्यक्तवान्
नवदिल्ली, ३० दिसम्बरमास: (हि.स.)। प्रधानमन्त्रीनरेन्द्रमोदी मङ्गलवासरे रूसीदेशस्य राष्ट्रपति-आवासं लक्ष्यीकृत्य वार्ताविषये गभीरां चिन्तां व्यक्तवान्। युद्धपीडितपरिस्थितिषु कूटनीतिकमार्गमेव शान्तिपूर्णसमाधानाय सर्वोत्तमः विकल्पः इति सः अवदत्। प्र
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, ३० दिसम्बरमास: (हि.स.)। प्रधानमन्त्रीनरेन्द्रमोदी मङ्गलवासरे रूसीदेशस्य राष्ट्रपति-आवासं लक्ष्यीकृत्य वार्ताविषये गभीरां चिन्तां व्यक्तवान्। युद्धपीडितपरिस्थितिषु कूटनीतिकमार्गमेव शान्तिपूर्णसमाधानाय सर्वोत्तमः विकल्पः इति सः अवदत्।

प्रधानमन्त्रिणः आधिकारिके ‘एक्स’पटले सः लिखितवान् यत् “रूसदेशस्य राष्ट्रपति-आवासमधिकृत्य वार्ताभिः वयम् अत्यन्तं चिन्तिताः स्मः। प्रवर्तमानाः राजनैतिप्रयत्नाः शत्रुभावस्य समाप्तये शान्तेः प्राप्तये च श्रेष्ठः मार्गा: सन्ति। सर्वान् सम्बद्धपक्षान् वयमनुरोधं कुर्मः यत् ते एतेषु प्रयत्नेषु एव ध्यानं ददतु, तथा च तानि कार्याणि मा कुर्वन्तु येभ्य: एये प्रयत्ना: दुर्बला: भवेयु:।

प्रधानमन्त्रिणः अस्मिन् वक्तव्ये वैश्विकस्तरे शान्तिप्रक्रियायाः समर्थनाय भारतस्य प्रतिबद्धता स्पष्टतया दृश्यते। सः सर्वान् पक्षान् संयमपालनाय कूटनीतिमाध्यमेन मतभेदान् समाधानं कर्तुम् आहूतवान्।

उल्लेखनीयं यत् अन्ताराष्ट्रिस्तरे रूस-यूक्रेनयोः प्रवर्तमाने सङ्घर्षे रूसदेशेन आरोपः कृतः यत् यूक्रेनदेशेन रूसदेशस्य राष्ट्रपतिन: व्लादिमीरपुतिनस्य आवासे ड्रोनयानैः आक्रमणं कृतम्, यत् रूसी-वायुरक्षातन्त्रेण निरस्तं कृतम्। परन्तु यूक्रेनदेशेन एषा वार्ता खण्डिता।

हिन्दुस्थान समाचार / अंशु गुप्ता