Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 30 दिसंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रः मोदी उत्तराखण्डस्य अल्मोड़ा जनपदे मङ्गलव्हारे घटिते बसदुर्घटने जनानां निधनं प्रति गाढं शोकं व्यक्तवान्। प्रधानमन्त्रिकार्यालयस्य अधिकृत-एक्स-हैण्डलतः प्रकाशिते सन्देशे प्रधानमन्त्रिणा उक्तम् यद् उत्तराखण्डस्य अल्मोड़ा जनपदे बसदुर्घटनया जनानां प्राणहानिः अतीव दुःखदाऽस्ति। येषां प्रियजनाः नष्टाः, तेषां प्रति मम संवेदनाः। घातितानां शीघ्रं स्वास्थ्यलाभं अभिलषामि।”
उल्लेखनीयं यत् उत्तराखण्डस्य अल्मोड़ा जनपदस्य भिकियासैंण प्रदेशे सिलापानी इत्यस्य समीपे मङ्गलव्हारस्य प्रातेः बसः गभीरखादिं प्रति पतिता, तस्मिन्नेव दुर्घटने सप्तजनानां निधनं जातम्, द्वादश अन्ये अपि आहताः अभवन्।
---------------
हिन्दुस्थान समाचार