Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 30 दिसंबरमासः (हि.स.)।
प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे नेताजीसुभाषचन्द्रबोसस्य कृते श्रद्धाञ्जलिः अर्पितः। स स्मारितवान् यत् अद्यैव दिवसस्य पूर्वं द्व्यशीत्यधिकवर्षपूर्वं अर्थात् ३० डिसम्बर १९४३ तमे वर्षे नेताजिना अण्डमाननिकोबारद्वीपसमूहस्य राजधानी पोर्टब्लेयरनाम्नि स्थाने साहसपराक्रमाभ्यां सह भारतीयतिरङ्गध्वजः आरोहितः।
प्रधानमन्त्री मोदिनाऽपि एक्स इत्यस्मिन् माध्यमे लिखितम्— “अद्य एव दिने ३० डिसम्बर १९४३ तमे नेताजिना पोर्टब्लेयरपुर्यां साहसपराक्रमाभ्यां सह तिरङ्गध्वजः आरोहितः। सः क्षणः अस्मान् बोधयति यत् स्वातन्त्र्यम् केवलमाकाङ्क्षामात्रेण न लभ्यते, किन्तु शक्त्या, श्रमेण, न्यायेन, सङ्घटितसंकल्पेन च निर्मीयते। अद्यतनं सुभाषितं तदेव भावम् प्रकाशयति।” इति।
तेन सह संस्कृतभाषया सुभाषितम् अपि सहकृतं यत् सामर्थ्यमूलं स्वातन्त्र्यं श्रममूलं च वैभवम्। न्यामूलं सुराज्यं स्यात् सङ्घमूलं महाबलम्॥
अस्य अर्थः— स्वातन्त्र्यस्य मूलं सामर्थ्यम् अस्ति, वैभवस्य मूलं श्रमः, सुशासनस्य मूलं न्यायः, महाबलस्य मूलं सङ्घटनम् इति।
एषा ऐतिहासिकघटना द्वितीयस्य विश्वयुद्धस्य काले जाताऽभूत्, यदा जापानदेशीयसेनाया सहायतया नेताजेः आजादहिन्दसेनया अण्डमानद्वीपे आधिपत्यं कृतम्, तत्र तिरङ्गध्वजं आरोह्य तं देशभागं ब्रिटिशशासनात् मुक्तं भारतीयप्रदेशमिति घोषितम्।
---------------
हिन्दुस्थान समाचार