छत्तीसगढं राष्ट्रपतिः मुर्मु आगता, राज्यपालः डेका स्वागतम् अकरोत्
रायपुरम्, 30 दिसम्बरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मु अद्य प्रातःकाले छत्तीसगढराज्यं प्राप्तवती। जशपुरजनपदे आगडीह-विमानपत्तने छत्तीसगढस्य राज्यपालः रमेन डेका, झारखण्डस्य राज्यपालः सन्तोषकुमारः गंगवारः, छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवः साय
राष्ट्रपति द्रौपदी मुर्मू का गुलदस्ता भेंट कर स्वागत करते राज्यपाल डेका


रायपुरम्, 30 दिसम्बरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मु अद्य प्रातःकाले छत्तीसगढराज्यं प्राप्तवती। जशपुरजनपदे आगडीह-विमानपत्तने छत्तीसगढस्य राज्यपालः रमेन डेका, झारखण्डस्य राज्यपालः सन्तोषकुमारः गंगवारः, छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवः सायः, अन्ये मन्त्रिणः, जनप्रतिनिधयः तथा प्रशासनिक-अधिकारीणश्च राष्ट्रपतिं सस्नेहं स्वागतम् अकुर्वन्।

ततः अनन्तरं राष्ट्रपतिः मार्गेण झारखण्डराज्यस्य मांझाटोला-स्थले आयोजिते अन्तर्राज्यीय-जनसंस्कृति-समागम-समारोहः ‘कार्तिक-जतरा’ इत्यस्मिन् भागं ग्रहीतुं गमिष्यति।

---------------

हिन्दुस्थान समाचार