नूतनवर्षोत्सवस्य आयोजनाय राजस्थानं पर्यटकैः परिपूर्णम्, राहुल–प्रियङ्कागान्धी रणथम्भौरं प्राप्तवन्तौ
जयपुरम्, ३० दिसम्बरमास: (हि.स.)।नूतनवर्षोत्सवस्य अवसरॆ राजस्थानप्रदेशः पूर्णतया उत्सववर्णैः आच्छादितः अस्ति। जयपुरम्, उदयपुरम्, जैसलमेरम् इत्यादिषु प्रदेशस्य प्रमुखेषु पर्यटनस्थलेषु देश–विदेशेभ्य: बहुसंख्यका: पर्यटकाः आगताः सन्ति। सर्वाणि निवासस्था
फाइल


जयपुरम्, ३० दिसम्बरमास: (हि.स.)।नूतनवर्षोत्सवस्य अवसरॆ राजस्थानप्रदेशः पूर्णतया उत्सववर्णैः आच्छादितः अस्ति। जयपुरम्, उदयपुरम्, जैसलमेरम् इत्यादिषु प्रदेशस्य प्रमुखेषु पर्यटनस्थलेषु देश–विदेशेभ्य: बहुसंख्यका: पर्यटकाः आगताः सन्ति। सर्वाणि निवासस्थानानि, अतिथिगृहाणि च पूर्णतया पूरितानि सन्ति, तथा च विपणिषु पर्यटनस्थलेषु च महान् जनसमूहः दृश्यते। पर्यटकानां वृद्धिम् अवलोक्य महानगरेषु यातायातस्य मार्गपरिवर्तनं कृतम्, अतिरिक्तः आरक्षीबलः अपि नियुक्त: अस्ति।अस्मिन्नेव काले कांग्रेसदलस्य नेतारौ राहुलगान्धी–प्रियङ्कागान्धी च नूतनवर्षोत्सवं मन्यन्तौ सवाईमाधोपुरस्थितं रणथम्भौरं प्राप्तवन्तौ। मङ्गलवासरस्य अपराह्णे तयोः रणथम्भौरागमनकाले दृढा: सुरक्षाव्यवस्थाः कृताः आसन्। तयोः उपस्थितेः कारणेन क्षेत्रे विशेषसतर्कता पाल्यते।जयपुरनगरे मङ्गलवासरप्रातःकालादेव आमेरमहलः, हवामहलः, अल्बर्टहॉल्, नाहरगढ़दुर्गः, जन्तर-मन्तरम् इत्यादिषु प्रमुखेषु पर्यटनस्थलेषु विशालः जनसमूह: समागच्छत्। हवामहलस्य बहिः प्रातःकालादेव पर्यटकानां दीर्घाः पङ्क्तयः दृश्यन्ते स्म। चान्दी-टकसाल्-मार्गसहितेषु बहुषु क्षेत्रेषु यातायातः मन्दगत्या प्रवृत्तः। एषैवा स्थितिः उदयपुरे जैसलमेरे च आसीत्, यत्र पर्यटनस्थलेषु विपणिषु च अत्यधिकः उत्साहः दृष्टः।जैसलमेरनगरे अस्मिन् वर्षे नूतनवर्षोत्सवे पर्यटकैः पूर्ववर्ती सर्वे अभिलेखाः अतिवर्तिताः। प्रतिवर्षं २५ तः ३१ दिसम्बरपर्यन्तं यत्र प्रायः त्रिलक्षं पर्यटकाः आगच्छन्ति स्म, तत्र अस्मिन् वर्षे एषः सङ्ख्याङ्कः षड्लक्षाधिकं प्राप्तः अस्ति। समस्य मृदुधोरेभ्यः आरभ्य सोनारदुर्गं विपणीन् च पर्यटकानां विशालः जनसमूहः समागच्छति। प्रशासनद्वारा अनेकेषु स्थानेषु यातायातमार्गाः परिवर्तिताः सन्ति।धार्मिकस्थलेषु अपि श्रद्धालूनां महाप्रवाहः दृश्यते। खाटूश्यामजी (सीकर), सालासरबालाजी (चूरू), मेहन्दीपुरबालाजी (दौसा), सांवलियासेठः (चित्तौड़गढ़) इत्येतेषु स्थलेषु सामान्यदिनैः अपेक्षया बहुगुणाः भक्ताः आगच्छन्ति। खाटूश्यामजीक्षेत्रे गतचतुर्दिनात् निरन्तरं महान् जनसमूहः अस्ति, येन दर्शनार्थं सार्धैघण्टात् द्विघण्टापर्यन्तं कालः यापनीयः भवति।नूतनवर्षोत्सवं दृष्ट्वा प्रशासनम् अपि पूर्णतया सतर्क: अस्ति। जयपुर-आरक्षी-आयुक्तालयेन होटेल-भोजनालय-मद्यपानगृह-प्रबन्धकान् प्रति ‘मद्यपानानन्तरं वाहनचालनं मा कुरुत’ इति सन्देशं दातुं निर्देशाः दत्ताः। विशेष-आरक्षी-आयुक्तः राहुलप्रकाशः अवदत् यत् मद्यपानं कृत्वा वाहनचालनं न केवलं चालकानां, अपि तु सामान्यनागरिकानामपि कृते संकटजनकम् अस्ति। नारीसुरक्षा, सीसीटीवी-व्यवस्था, डीजे-माइक-इत्येतयोः नियमानुसारंशम् उपयोगः, धूम्रपानालयानां पूर्णनिषेधः इत्यादीनां नियमानां समृयक् अनुपालनाय अपि निर्देशाः दत्ताः।पालीजनपदस्य जवईक्षेत्रे अपि नूतनवर्षे विशेषमाकर्षणं दृश्यते। जवई-लेपर्ड-संरक्षणक्षेत्रे प्रतिदिनं सहस्रपञ्चशतात् द्विसहस्रपर्यन्तं पर्यटकाः आगच्छन्ति। लेपर्ड-सफारी, ऑफ--रोडिङ, ग्रामीणसंस्कृतेः अनुभवाय पर्यटकाः विशेषतः अत्र आगच्छन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता