Enter your Email Address to subscribe to our newsletters


रामनाथपुरम् (तमिलनाडु), ३० दिसम्बरमास: (हि.स.)।
तमिलनाडु-काशी इत्यनयोः सांस्कृतिक-सम्पर्कान् कालातीत-बन्धनानि च सोत्सवम् आचरन् काशी-तमिल-सङ्गमम् ४.० इत्यस्य भव्यः समापन-समारोहः अद्य रामेश्वरम्-नगरे आयोजितः भविष्यति। अस्य कृते विशालः मञ्चः सज्जीकृतः, तथा प्रबला आरक्षी-सुरक्षा-व्यवस्था अपि कृतास्ति। समापन-समारोहे उपराष्ट्रपतिः सी.पी.राधाकृष्णनेन सह देशस्य अनेकाः गणमान्याः सहभागिनः भविष्यन्ति।
अस्मिन् वर्षे २ दिसम्बरमासात् १५ दिसम्बरमासपर्यन्तम् उत्तरप्रदेशस्य वाराणसी-नगरे अपि काशी-तमिल-सङ्गमम् आयोजितम्। तमिलनाडु-प्रदेशस्य विद्यार्थिनः, कलाकाराः, कृषकाः, स्वयंसेवकाः च अस्मिन् कार्यक्रमे सहभागं कृतवन्तः। अस्य कार्यक्रमस्य समापनम् अद्य अपराह्णे त्रिवादने (३:०० वादने) रामेश्वरम्-नगरे भविष्यति। काशी-तमिल-सङ्गमस्य समापन-समारोहे पञ्चसहस्राणि आमन्त्रित-नागरिकाणां सहभागिता अपेक्ष्यते। एतदर्थं सप्तशतं (७००) आरक्षिणः सुरक्षायै नियुक्ताः।
एषः समारोहः रामेश्वरम्-बस-स्थानकस्य समीपे स्थिते मन्दिरस्य अतिथि-परिसरे आयोजितः भविष्यति। रामनाथपुरम्-जनपदस्य जनपदाधिकारी सिमरजीत-सिंह-कालोनः, जनपद-आरक्षी-अधीक्षकः सन्दीशः, अन्ये च वरिष्ठाधिकारिणः अद्य प्रातः मन्दिर-परिसरं भ्रमित्वा व्यवस्थाः सम्यक् अवलोकितवन्तः। अस्मिन् कार्यक्रमे उपराष्ट्रपतिः सी.पी.राधाकृष्णनः, तमिलनाडु-राज्यपालः आर.एन.रविः, केन्द्रीय-शिक्षामन्त्री धर्मेन्द्र-प्रधानः, केन्द्रीय-राज्यमन्त्री एल.मुरुगनः इत्येतैः सहितं अनेके गणमान्याः सहभागं करिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता