नूतनवर्षे मुख्यमंत्री योगी प्रदेशवासिभ्याेऽलिखत् पत्रं, युवभ्यो विशिष्टमाह्वानम्
लखनऊ, 30 दिसंबरमासः (हि.स.)। मुख्यमन्त्रिणा योगिना आदित्यनाथेन आङ्ग्लवर्षस्य २०२६ आगमनात् पूर्वमेव प्रदेशवासिभ्यः पत्रं लिखितम्। सः अवदत् यत् एषः आङ्ग्लवर्षे २०२६ इति प्रवेशनकालः अस्ति। वर्षं २०२५ इति तु तन्त्रज्ञानस्य कृत्रिमबुद्धेः तथा दत्तांशस्य
मुख्यमंत्री योगी


मुख्यमंत्री योगी ने लिखा पत्र


लखनऊ, 30 दिसंबरमासः (हि.स.)। मुख्यमन्त्रिणा योगिना आदित्यनाथेन आङ्ग्लवर्षस्य २०२६ आगमनात् पूर्वमेव प्रदेशवासिभ्यः पत्रं लिखितम्। सः अवदत् यत् एषः आङ्ग्लवर्षे २०२६ इति प्रवेशनकालः अस्ति। वर्षं २०२५ इति तु तन्त्रज्ञानस्य कृत्रिमबुद्धेः तथा दत्तांशस्य क्षेत्रेषु नवोन्मेषणानां नूतनमानदण्डनिर्माणेन स्मरणीयं भविष्यति। प्रदेशे सुशासनराज्येन विश्वस्तरे “ब्राण्ड् यूपी” इति कीर्तिः दृढीकृता। उत्तरप्रदेशः अधुना निवेशकानां विश्वासस्य प्रदेशः जातः।

सः युवेभ्यः अपि आवाहनं कृतवान् यत् प्रति सप्ताहं न्यूनतमानं एकघंटामात्रं “ज्ञानदान” इत्यर्थं समयं यच्छेयुः। मुख्यमन्त्री अवदत् यद् “आङ्ग्लवर्षे २०२६ इति प्रवेशकालः वर्तते। वर्षं २०२५ इति तन्त्रज्ञानकृत्रिमबुद्धिदत्तांशेषु नवोन्मेषस्य नूतनमानकनिर्माणेन स्मरणीयं भविष्यति। उत्तरप्रदेशः भविष्योन्मुखविकासस्य नूतनान् मानकान् निर्माति। प्रदेशस्य डिजिटलभविष्यं निर्दिश्य निवेशकेन्द्ररूपेण स्थापितुं शासनस्य प्रयासाः अत्यधिकं सफलाः भवन्ति।”

सः अवदत् यत् निवेशः तदा एव सुरक्षितः भवति यदा समाजराज्ये च सुरक्षा विद्यते। प्रदेशे सुशासनराज्येन “ब्राण्ड् यूपी” इति ख्यातिः विश्वे दृढीभूता। उत्तरप्रदेशः निवेशकविश्वासस्य प्रदेशः जातः। लखनौ-नोएडयोः कृत्रिमबुद्धिनगर्यौ निर्मातुं तयारी अस्ति। जेवरनाम्नि स्थाने त्रिसहस्रसप्तशतकोटीरूप्यकव्ययेन अर्धचालकएककस्य निर्माणं प्रवृत्तम्। स्वदेशीकेंद्रे सुरक्षितदत्तांशपरिग्रहे हेतुम् निर्मिता दत्तांशकेन्द्रनीतिः सफलतां दर्शयति। पञ्च हाइपरस्केल्-दत्तांशकेन्द्रपार्कानां व्यवसायिकोपयोगः आरब्धः। दत्तांशकेन्द्रेषु त्रिंशतिसहस्रकोटिमितं निवेशलक्ष्यम् निर्धारितम्। नवसु नगरेषु सॉफ्ट्वेअर्-तन्त्रज्ञानपार्काः स्थापिताः। ड्रोन-रोबोटिक्स्-मोबाइलनिर्माणादिषु अपि नित्यं नूतनानि कीर्तिमानानि स्थाप्यन्ते। “एआई-प्रज्ञा” इत्यस्य माध्यमेन दशलक्षनागरिकेभ्यः कृत्रिमबुद्धिशिक्षणं प्रदत्तम्; सहस्रशः नूतनाः जीविकाः सृज्यन्ते।

मुख्यमन्त्री पुनर्लिखति— “अहं इच्छामि यत् मम युवासहचराः वर्षे २०६६ (२०२६) इत्यस्मिन् विशेषं संकल्पं कुर्वन्तु। भवन्तः स्वपरिसरे पञ्चबालकान् कम्प्यूटरकृत्रिमबुद्धिविषये जागरूकान् कुर्वन्तु, प्रति सप्ताहं न्यूनतमानं एकघंटाम् ‘ज्ञानदान’ इत्यर्थं यच्छन्तु। शासनस्य भवतः च संयुक्तप्रयासेन न केवलं विकसितउत्तरप्रदेशस्य स्वप्नं साकारं भविष्यति, अपि तु उत्तरप्रदेशं विज्ञानप्रौद्योगिक्याः वैश्विकराजधानीरूपेणापि प्रतिष्ठापयितुं साहाय्यं भविष्यति।”

हिन्दुस्थान समाचार