Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ३० दिसम्बरमास: (हि.स.)। २०२५ तम: वर्ष: अम्ल-मधुरस्मृतिभिः सह अस्मत्त विदायं गृह्णाति। एषः वर्षः प्रदेशवासिनां कृते स्वास्थ्यसेवायाः सुदृढस्य आधारभूतभवनस्य विस्ताराय महत्त्वपूर्णां भूमिकां निर्वहति स्म। मुख्यमन्त्रिणः योगी-आदित्यनाथस्य नेतृत्वे २०२५ वर्ष: स्वास्थ्यसेवाक्षेत्रे ऐतिहासिकः अभवत्। चिकित्सास्वास्थ्य-परिवारकल्याण-विभागेन अस्मिन् वर्षे आधारभूतसंरचनाविस्तारात् आरभ्य अत्याधुनिक-चिकित्सोपचार-सुविधानां यावत् अनेकाः महत्त्वपूर्णाः उपलब्धयः साधिताः। एतेषां प्रयत्नानां प्रत्यक्षं लाभं प्रदेशस्य कोटिशः जनाः अलभन्त, येन स्वास्थ्यसेवाः अधिकसुलभाः, अल्पव्ययिन:, गुणवत्तायुक्ताश्च अभवन्।
अपर-मुख्यसचिवः (स्वास्थ्य) अमितकुमार-घोषः अवदत् यत् मुख्यमन्त्रिणः योगी-आदित्यनाथस्य अभिप्रायानुसारं २०२५ वर्षे स्वास्थ्यसेवाः अधिकसुदृढीकृताः। अस्मिन् क्रमे आपत्कालीन-कोविड-रिलीफ-पैकेज (ईसीआरपी) इत्यन्तर्गतं प्रदेशे चिकित्सानमूना अभूतपूर्वतया सशक्तीकृतः। २०२५ तमे वर्षे आहत्य ८३ नवीनाः स्वास्थ्य-एककाः लोकार्पिताः, एकस्य विशालचिकित्सालयस्य शिलान्यासश्च कृतः। एतेषु २६ आईपीएचएल-प्रयोगशालाः, ३८ पञ्चाशत्-शय्यायुक्ताः फील्डचिकित्सालयाः, १३ जनपदीय-औषध-भाण्डागाराः, सामुदायिक-स्वास्थ्यकेन्द्राणि, सीसीबी-एककानि तथा प्राथमिक-स्वास्थ्यकेन्द्राणि अन्तर्भवन्ति। तदतिरिक्तं सीतापुरे २००-शय्यायुक्तस्य जिला-चिकित्सालयस्य शिलान्यासः अपि कृतः। प्रदेशस्य चिकित्सामहाविद्यालयेषु १८०० तथा जिला-चिकित्सालयेषु १०२९ आईसीयू-शय्याः स्थापिता:। प्राणवायुपूरणं सुदृढीकर्तुं मेडिकल-गैस-पाइप-लाइन-सिस्टम्स (एमजीपीएस्) सहितं ४९ एलएमओ-भण्डारण-प्रपाता: स्थापिताः, येन गम्भीररोगिणां कृते समये प्राणरक्षक-सुविधाः उपलब्धाः भवन्ति।
एनएचएम-निदेशिका डॉ.पिंकी-जोवल: अवदत् यत् योगी-सर्वकारेण मातृ-शिशु-स्वास्थ्यं सर्वोच्चप्राथमिकतारूपेण स्वीक्रियते। तदन्तर्गतं ४२-शय्यायुक्ताः पीडियाट्रिक्
-केयर-यूनिट्स जिला-चिकित्सालयेषु चिकित्सामहाविद्यालयेषु च स्थापिताः। एवमेव ३२-शय्यायुक्ताः सर्वे २३ पीडियाट्रिक्-एककाः पूर्णतया सञ्चालिताः। नवजातशिशूनां परिचर्यायै प्रदेशे ४१२ न्यूबॉर्न्-स्टेबलाइजेशन्-यूनिटस् (एनबीएसयू) स्थापिता:। वर्षे २०२४–२५ बाह्यरोगी-सेवायां २७ प्रतिशतं, अन्तःरोगी-सेवायां च ३२ प्रतिशताधिकं वृद्धिः अभिलेखिता। संस्थागत-प्रसवेषु, शल्यचिकितृसा-प्रसवेषु, महत्सु लघुषु च शल्यक्रियासु, पैथोलॉजी-परीक्षासु, एक्स-रे तथा अल्ट्रासाउण्ड-सेवासु अपि उल्लेखनीयः वृद्धिः अभवत्।
आधुनिक-परीक्षण-उपचार-सुविधाः
प्रदेशस्य ७४ जनपदेषु सीटी-स्कैन-सुविधा तथा सर्वेषु ७५ जनपदेषु डायलिसिस-सेवाः उपलब्धाः कृताः। जनवरीतः नवम्बर-२०२५ पर्यन्तं ९.४२-लक्षं सीटी-स्कैन तथा ६.५०-लक्षाधिकाः अनुसन्धान-सत्राणि सञ्चालितानि। आवश्यक-औषधानाम् उपलब्धतां सुनिश्चेतुम् एसेंशियल-ड्रग-लिस्ट-विस्तारिताऽस्ति, येन प्राथमिक-चिकित्सालयस्तरादारभ्य जिला-चिकित्सालयस्तरं यावत् औषधानां संख्या वर्धिता।
साचीज-संस्थायाः मुख्यकार्यकारी-अधिकारिणी अर्चना-वर्मा अवदत् यत् आयुष्मान-भारत-प्रधानमन्त्री-जन-आरोग्य-योजनान्तर्गतं ३१८ चिकित्सालयाः संयोजिताः, येषु २४८ कर्करोग-उपचार-संबद्धाः सन्ति। दिसम्बर-२०२५ पर्यन्तं प्रायः ३८६२-कोटि-रूप्यकाणां प्रदानं चिकित्सालयेभ्यः कृतम्। एम्बुलेन्स-सेवाः सुदृढीकृत्य २२४९ नवीनाः एम्बुलेन्स-यानानि परिसरे समाविष्टानि, येन लक्षाधिकाः रोगिणः समये चिकित्सालयं प्रापिताः।
क्षयरोग-उन्मूलन-अभियाने प्रदेशेन राष्ट्रियस्तरे प्रशंसनीयं प्रदर्शनं कृतम्। परीक्षण-सङ्ख्यायां १०० प्रतिशताधिकं वृद्धिः अभवत्, तथा ७१९१ पञ्चायताः क्षयरोग-मुक्ताः घोषिताः, यत् गतवर्षात् ४२४ प्रतिशताधिकं वर्धनम् अस्ति। ई-संजीवनी-सेवाभिः प्रतिदिनं सरासरितया ७५ सहस्राधिक-आह्वानैः सह उत्तरप्रदेशः देशे द्वितीयस्थाने स्थितः। मानसिक-स्वास्थ्याय टेली-मानस्-सेवा सफलतया प्रवर्तिता, येन लक्षाधिकाः जनाः परामर्शं प्राप्तवन्तः। तदनन्तरं टेलीमेडिसिन् तथा टेली-रेडियोलॉजी-सेवानां तीव्रतया विस्तारः क्रियमाणः वर्तते।
हिन्दुस्थान समाचार / अंशु गुप्ता