उत्तरप्रदेशस्य सीतापुर-जनपदे स्थितानां १७३ आरोग्य-मन्दिराणां कायाकल्पः भविष्यति
ग्रामीणजनानां कृते उत्तमतराः स्वास्थ्य-सेवाः उपलब्धाः भविष्यन्ति
फाइल फोटो


सीतापुर-नगरम्, ३० दिसम्बरमास:(हि.स.)। उत्तरप्रदेशस्य सीतापुर-जनपदे ग्रामीणाञ्चलेषु उत्तमाः सुलभाश्च चिकित्सासुविधाः उपलब्धीकर्तुं सर्वेषां १७३ आरोग्य-मन्दिराणां / आयुष्मान्-आरोग्य-मन्दिराणां नवीनीकरणं क्रियमाणम् अस्ति। अस्या: योजनाया: अन्तर्गतं स्वास्थ्य-केन्द्राणां आधारभूत-संरचना सुदृढीकृत्य तानि आधुनिक-सुविधाभिः समलङ्कृतानि भविष्यन्ति, येन ग्रामेषु निवसतां जनानां कृते उत्तमः उपचारः सुलभः भविष्यति।

जिलाधिकारी डॉ.राजा-गणपति: आर. मङ्गलवासरे अवदत् यत् नवीनीकरणकार्येषु एलिया-विकासखण्डे ७, बेहटा ४, बिसवां ६, गोण्डलामऊ १३, हरग्राम: ४, कसमण्डा १, खैराबाद १७, लहरपुरम् ८, मछरेहटा ८, महमूदाबादम् ६, महोली १५, मिश्रिख: ९, पहला २४, परसेण्डी १४, पिसावां १४, रामपुर-मथुरा ४, रेउसा ३, सकरन ५ तथा सिधौली ११ आरोग्य-मन्दिराणि अन्तर्भवन्ति।

जिलाधिकारिणाऽपि उक्तं यत् आरोग्य-मन्दिराणां नवीनीकरणं केवलं भवन-सुधार-कार्यं न, अपि तु ग्रामीण-क्षेत्रेषु स्वास्थ्य-सेवानां गुणवत्तावृद्ध्यै महत्त्वपूर्णं पादं भवति। नवीनीकरण-कार्येषु भवन-समृयक्करणं, वर्णलेपनं, शौचालयानां दुरुस्तीकरणं, परिसरस्य च चहारभितृया: निर्माणं, पानजल-प्रबन्धस्य तथा प्रकाश-व्यवस्थायाः सुदृढीकरणं च समाविष्टम् अस्ति। एतेन सह स्वास्थ्य-केन्द्राणां तेषां परिसरेषु च स्वच्छता-व्यवस्थाऽपि अधिका सुदृढा करिष्यते।

स: अवदत् यत् एतेषां कार्याणां फलस्वरूपेण आयुष्मान-आरोग्य-मन्दिराणि आगच्छतां रोगिणां कृते सुविधाजनकं वातावरणं प्राप्स्यन्ति, मूलभूत-सुविधाः सुदृढाः भविष्यन्ति, तथा ग्रामीणाः समये एव उत्तमतराः स्वास्थ्य-सेवाः लब्धुं समर्थाः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता