‘भारत-बौद्धिक्स’ ग्रन्थ-शृङ्खला भारतीय-ज्ञान-परम्परायाः वैश्विक-प्रतिष्ठायाः मार्गं प्रशस्तयिष्यति — प्रो. पूनम-टण्डन:
गोरखपुर-नगरम्, ३० दिसम्बरमासः (हि.स.)। दीनदयाल-उपाध्याय-गोरखपुर-विश्वविद्यालयस्य कुलपतिः प्रो. पूनम-टण्डनः अद्य विद्या-भारती (उच्च-शिक्षा) गोरक्ष-प्रान्तस्य कार्यकारिणी-सदस्यानाम् उपस्थितौ विद्या-भारती-उच्च-शिक्षा-संस्थानस्य प्रकाशन-कार्येण प्रकाशि
कुलपति प्रो. पूनम टंडन ने ‘भारत बौद्धिक्स’ पुस्तक श्रृंखला का किया विमोचन*


गोरखपुर-नगरम्, ३० दिसम्बरमासः (हि.स.)। दीनदयाल-उपाध्याय-गोरखपुर-विश्वविद्यालयस्य कुलपतिः प्रो. पूनम-टण्डनः अद्य विद्या-भारती (उच्च-शिक्षा) गोरक्ष-प्रान्तस्य कार्यकारिणी-सदस्यानाम् उपस्थितौ विद्या-भारती-उच्च-शिक्षा-संस्थानस्य प्रकाशन-कार्येण प्रकाशिताया: ‘भारतीय-ज्ञान-परम्परा-आधारिता भारत-बौद्धिक्स’ इति पुस्तक-श्रृङ्खलाया: प्रकाशितानां २१ ग्रन्थानां हिन्दी-अङ्ग्ल-भाषयोः संस्करणयोः विमोचनं कृतवती। अस्यां पुस्तक-श्रृङ्खलायां भारतीय-काल-दर्शनम्, भारतीय-आरोग्य-ज्ञानम्, वैदिक-गणितम्, भारतीय-भाषा-विज्ञानम्, भारतीय-ज्ञान-प्रणाली इत्यादिषु विषयेषु केन्द्रिताः ग्रन्थाः समाविष्टाः सन्ति, ये भारतस्य प्राचीनां ज्ञान-परम्परां वैज्ञानिक-दृष्टिं च उजागरयन्ति। गोरखपुर-विश्वविद्यालये आयोजिते अस्मिन् कार्यक्रमे कुलपतिः प्रो. टण्डनः अवदत् यत् भारतीय-ज्ञान-परम्परा अत्यन्तं समृद्धा, वैज्ञानिक-स्वरूपा, लोक-कल्याणकारीणि च आसीत्। अद्य आवश्यकता अस्ति यत् एतादृशैः शोध-आधारितैः ग्रन्थैः भारतीय-बौद्धिक-परम्परायाः वैश्विक-मञ्चे प्रतिष्ठा-मान्यता च लभ्येत। ‘भारत-बौद्धिक्स’ इति पुस्तक-श्रृङ्खलाः अस्यां दिशायां महत्त्वपूर्णः प्रयासः अस्ति। निःसन्देहं सा श्रृङ्खला भारतीय-ज्ञान-परम्पराया: वैश्विक-प्रतिष्ठाया: मार्गं प्रशस्तयिष्यति। कार्यक्रमे विद्या-भारती गोरक्ष-प्रान्तस्य अध्यक्षा प्रो.ममता-मणि-त्रिपाठी कुलपतिं प्रो.पूनम-टण्डनस्य स्वागतं कृत्वा अवदत् यत् विद्या-भारत्याः उद्देश्यं भारतीय-ज्ञानं, संस्कृतिं, मूल्यानि च अकादमिक-विमर्शस्य केन्द्रे स्थापयितुम् अस्ति। विमोचन-कार्यक्रमस्य समन्वयः डाॅ. मनीष-पाण्डेयेन कृतः। अस्मिन् अवसरे विद्या-भारती गोरक्ष-प्रान्तस्य उपाध्यक्षः प्रो. अजय-शुक्लः, डी.एस.डब्ल्यू. प्रो. अनुभूति-दुबे, अधियन्ता-विभागस्य अधिष्ठाता प्रो.हिमांशु-पाण्डेयः, सचिवः डाॅ.चन्द्र-प्रकाश-सिंहः, सदस्या डाॅ.रीना-मालवीया, प्रो.आलोक-कुमार-श्रीवास्तवः, डाॅ.कृष्ण-कुमार-जायसवालः इत्यादयः गण्यमानाः व्यक्तयः उपस्थिताः आसन्। चर्चायां ‘भारत-बौद्धिक्स’ पुस्तक-श्रृङ्खला भारतीय-ज्ञान-परम्पराया: पुनरुत्थानाय महत्त्वपूर्ण: प्रयास: इति वर्णित:। ‘भारत-बौद्धिक्स’ परीक्षा अपि आयोजिता भविष्यति। विद्या-भारती-उच्च-शिक्षा-संस्थानस्य उपाध्यक्षः प्रो.अजय-शुक्लः अवदत् यत् संस्थानेन सञ्चालिता ‘भारत-बौद्धिक्स’ परीक्षा भाषा-तथा-अन्य-विषय-अध्ययनरत-विद्यार्थिनां कृते ३१ जनवरी तथा १ फरवरी इति तिथिषु आयोजिता भविष्यति। परीक्षा विश्वविद्यालय-परिसरे ऑफलाइन-पद्धत्या आयोजिता भविष्यति। अस्यां स्नातक-स्नातकोत्तर-स्तरस्य विद्यार्थी भागं ग्रहीतुं शक्नुवन्ति। परीक्षा हिन्दी-आङ्ग्ल-भाषयोः भविष्यति। एषा १०० अङ्कानां परीक्षा भविष्यति, यस्यां ८० अङ्काः बहुविकल्पीय-प्रश्नानां, २० अङ्काः वर्णनात्मक-प्रश्नानां कृते निर्धारिताः सन्ति। देशव्यापिनः उत्कृष्ट-प्रदर्शनं कृतवते विद्यार्थिने प्रथम-पुरस्कारः १ लक्ष-रूप्यकाणि, द्वितीयः ५० सहस्र-रूप्यकाणि, तृतीयः २५ सहस्र-रूप्यकाणि, चतुर्थः २५०० रूप्यकाणि तथा प्रमाणपत्रं प्रदास्यते। ‘भारत-बौद्धिक्स’ पटले अस्याः पञ्जीकरणं १० जनवरी पर्यन्तं कर्तुं शक्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता