Enter your Email Address to subscribe to our newsletters

हुगली-नगरम्, ३० दिसम्बरमासः (हि.स.)। सोमवासरे न्यू-टाउन-क्षेत्रे मुख्यमन्त्री ममता-बनर्जिना दुर्गाङ्गणस्य शिलान्यासः कृतः। तेन सह सा उद्घोषितवती यत् अग्रिम-जनवरी-मासे उत्तर-बङ्गाले महाकाल-मन्दिरस्यापि शिलान्यासः भविष्यति। विधानसभानिर्वाचनात् पूर्वं राज्यस्य राजनीतौ मन्दिर–मस्जिद-विषये चर्चाः तीव्रतां प्राप्ताः सन्ति। अस्मिन्नेव सन्दर्भे फुरफुरा-शरीफ-स्थ पीरजादा तोहा-सिद्दीकी मङ्गलवासरे अस्य विषयस्य विषये स्वां प्रतिक्रियां स्पष्टतया व्यक्तवान्।पीरजादा तोहा-सिद्दीकी मुख्यमन्त्रिण्या मन्दिर-निर्माण-प्रकल्पस्य आलोचनां कुर्वन् अवदत्— मन्दिराणि निर्मीयन्ताम्, चर्चाः अपि निर्मीयन्ताम्, अस्मिन् विषये काऽपि आपत्तिः नास्ति; किन्तु मस्जिदाः अपि निर्मीयन्ताम्। तस्य आरोपः अस्ति यत् मन्दिर-निर्माणेन मुख्यमन्त्री ममता-बनर्जी राजनीतिदृष्ट्या अनुचितं पादं स्थापयति।दुर्गाङ्गणस्य शिलान्यासानन्तरं तोहा-सिद्दीकी अवदत् यत् यया अपेक्षया हिन्दू-समुदायस्य कृते मन्दिराणि निर्मीयन्ते, सा अपेक्षा सफलं न भविष्यति। तस्य कथनानुसारं— “ममता-बनर्जी येन प्रकारेण अद्यावधि कार्यं कृतवती, तत्र मन्दिर–मस्जिद-निर्माणस्य आवश्यकता न आसीत्। किन्तु अधुना ये हिन्दू-मताः अन्यत्र गताः, तान् पुनः आकर्षयितुं प्रयासः क्रियते।”सः अग्रे अपि अवदत् यत् दुर्गाङ्गणं निर्मीयते, जगन्नाथ-मन्दिरम् अपि निर्मितमेव अस्ति। तथापि कश्चन अपि हिन्दू-भ्राता ममता-बनर्जीं प्रति मन्दिर-निर्माणस्य याचनां न कृतवान्। अपरतः अल्पसंख्यक-समुदायस्य जनाः मस्जिद-निर्माणस्य याचनां कुर्वन्ति, किन्तु सा कुतः न निर्मीयते? ममता-बनर्जी मन्यते यत् मन्दिर-निर्माणेन हिन्दू-मतदातॄणां मनः जेष्यति, तथा ये मताः तस्मात् दूरं गताः, ते पुनः प्रत्यागमिष्यन्ति। मम मतानुसारं सा तस्याः भ्रान्ता धारणा अस्ति। एतस्मिन् विषये अल्पसंख्यक-समुदायः अपि असन्तुष्टः अस्ति।तोहा-सिद्दीकी अपि अवदत् यत् तेन हिडको-क्षेत्रे एकस्य मस्जिदस्य निर्माणाय याचना कृता आसीत्। तस्य कथनम् अस्ति यत् तत्र बहुसङ्ख्यया उच्चशिक्षिताः युवकाः युवत्यश्च निवसन्ति, किन्तु नमाज-अर्पणाय कोऽपि मस्जिद् नास्ति। सः प्रश्नं पृष्टवान्— वक्फ-धनस्य उपयोगेन मस्जिद् किमर्थं न निर्मितम्? तस्य आरोपः अस्ति यत् अद्यावधि त्रयोदश मन्दिराणि निर्मितानि सन्ति, किन्तु पुनः पुनः निवेदनस्य अपि मस्जिद-निर्माणं न कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता