Enter your Email Address to subscribe to our newsletters

बॉलीवुड-जगतः द्वौ दिग्गजौ नटौ अमिताभ-बच्चनः तथा दिवंगतः अभिनेता धर्मेन्द्रः—एतयोः मैत्री दशकैः पुरातनी आसीत्। चलचित्रे ‘शोले’ इत्यस्मिन् जय–वीरू-रूपेण तयोः युगलम् अद्यापि दर्शकानां हृदयेषु निबद्धम् अस्ति। अद्यतने ‘कः निर्मिष्यति कोटिपतिः–१७’ इति कार्यक्रमस्य मञ्चे अमिताभ-बच्चनः स्वस्य निकट-मित्रं धर्मेन्द्रं स्मृत्वा भावुक-भावेन तस्मै श्रद्धाञ्जलिम् अर्पितवान्। अस्मिन् अवसरे तेन धर्मेन्द्र-संबद्धं विशेषं स्मरणीयं च वृत्तान्तं अपि कथितम्, यस्य चलचित्रं कार्यक्रम-निर्मातृभिः सामाजिक-माध्यमेषु प्रकाशितम् अस्ति, तत् च शीघ्रं व्यापक-रूपेण प्रसारितं भवति।‘केबीसी–१७’ इति मञ्चे चलचित्रस्य ‘इक्कीस’ इत्यस्य प्रचारार्थं तस्य दलम् उपस्थितः आसीत्, यस्मिन् निर्देशकः श्रीराम-राघवणः, अभिनेतारौ अगस्त्य-नन्दा तथा जयदीप-अहलावतः च सम्मिलिताः आसन्। संवाद-काले अमिताभ-बच्चनस्य ‘शोले’-दिवसाः स्मृतिपथम् आगताः। तेन उक्तं यत् चलचित्रस्य एकस्मिन् करुण-दृश्ये दृश्यमानं दुःखं वस्तुत: यथार्थमेव आसीत्। अमिताभः अवदत् यत् धरममहोदय: केवलं महान् नटः न, अपि तु मल्ल: अपि आसीत्, तथा तस्मिन् दृश्ये तेन मां अतिदृढतया ki गृहीतवान्, येन पीडा वस्तुतः अनुभूता।अमिताभ-बच्चनस्य एताः भावुकाः स्मृतयः श्रुत्वा मञ्चे उपस्थिताः सर्वे भाव-विह्वला: अभवन्। उल्लेखनीयं यत् धर्मेन्द्रस्य अन्तिमः चलचित्रः ‘इक्कीस’ आगामी १ जनवरी २०२६ तमे दिने चलचित्र-गृहेषु प्रदर्शितुं गच्छति। अतो ‘केबीसी–१७’ इति मञ्चात् तस्य विषये उक्तानि वाक्यानि तस्य प्रशंसकानां कृते अत्यन्तं विशिष्टानि अभवन्।
हिन्दुस्थान समाचार / अंशु गुप्ता