अद्य अयोध्यायां श्रीरामललायाः अभिषेकः, रक्षामन्त्री राजनाथसिंहः मुख्यमन्त्री योगी च उपस्थास्यत:
अयोध्या (उत्तरप्रदेशः), ३१ दिसम्बरमासः (हि.स.)। दिव्ये भव्ये च श्रीराम-जन्मभूमि-मन्दिरे प्रतिष्ठा-द्वादशी-अवसरे अद्य श्रीरामललायाः अभिषेकः विधास्यते। अस्मिन् विशेषे धार्मिकानुष्ठाने रक्षामन्त्री राजनाथसिंहः तथा उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित
अयोध्या स्थित श्रीराम जन्मभूमि मंदिर। फोटो - इंटरनेट मीडिया


अयोध्या (उत्तरप्रदेशः), ३१ दिसम्बरमासः (हि.स.)। दिव्ये भव्ये च श्रीराम-जन्मभूमि-मन्दिरे प्रतिष्ठा-द्वादशी-अवसरे अद्य श्रीरामललायाः अभिषेकः विधास्यते। अस्मिन् विशेषे धार्मिकानुष्ठाने रक्षामन्त्री राजनाथसिंहः तथा उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः सहभागिनौ भविष्यतः।

रक्षामन्त्री पूर्वाह्णे ११ वादने अयोध्याम् आगमिष्यति, मन्दिर-परिसरे च प्रायः चतुर्घण्टापर्यन्तम् अनुष्ठानेषु सहभागं करिष्यति। सः परकोटा-परिसरे स्थितस्य अन्नपूर्णा-मन्दिरस्य शिखरे ध्वजारोहणम् अपि करिष्यति।

भव्ये मन्दिरे श्रीरामललायाः प्राण-प्रतिष्ठायाः द्वितीया वार्षिकी महता उत्साहेन आचर्यते। अद्य यज्ञः, पूजनं च परम्परागत-विधिना सम्पन्नं भविष्यति। रक्षामन्त्रिणा राजनाथसिंहेन तथा मुख्यमन्त्रिणा योगिना सह सन्त-महात्मानः, धर्माचार्याः, बहुसंख्यकाः श्रद्धालवः च अस्य ऐतिहासिकस्य क्षणस्य साक्षिणः भविष्यन्ति।

अनुष्ठानानन्तरं रक्षामन्त्री अङ्गद-टीला-परिसरे आयोजितं समारोहम् सम्बोधयिष्यति। ततः सः अपराह्णे ३.२० वादने अयोध्यात: प्रत्यागमिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता