इतिहास-पत्रेषु १ जनवरी १९७८ — एअर-इण्डिया-विमान-दुर्घटना, २१३ यात्रिभि: सह समुद्रे निमग्नमासीद्विमानम्
नववर्षस्य आरम्भः सामान्यतः उल्लासेन आशाभिश्च सह भवति, किन्तु इतिहासस्य पृष्ठेषु १ जनवरी १९७८ इति दिनं एकां अत्यन्त-दुःखदां घटनाम् अपि स्मारयति। अस्मिन्नेव दिने एअर-इण्डिया-संस्थायाः बोइङ्ग–७४७ विमानम्, यस्य नाम “सम्राट् अशोकः” आसीत्, मुम्बई-स्थितात
सांकेतिक


नववर्षस्य आरम्भः सामान्यतः उल्लासेन आशाभिश्च सह भवति, किन्तु इतिहासस्य पृष्ठेषु १ जनवरी १९७८ इति दिनं एकां अत्यन्त-दुःखदां घटनाम् अपि स्मारयति। अस्मिन्नेव दिने एअर-इण्डिया-संस्थायाः बोइङ्ग–७४७ विमानम्, यस्य नाम “सम्राट् अशोकः” आसीत्, मुम्बई-स्थितात् अन्तर्राष्ट्रीय-विमानपत्तनात् उड्डयनानन्तरं क्षणमात्रेण अरब-सागरे पतितम्।अस्मिन् विमाने २१३ जनाः आसन्—तेषु १९० यात्रिकाः तथा २३ चालक-दलस्य सदस्याः समाविष्टाः आसन्। दुर्घटनानन्तरं विविधाः शङ्काः उत्पन्नाः, षड्यन्त्र-सम्बन्धिन्यः अपि चर्चाः अभवन्। किन्तु समुद्रात् प्राप्त-अवशेषाणां तथा तन्त्रज्ञ-अनुसन्धानाधारेण यान्त्रिक-दोषः एव दुर्घटनायाः कारणम् इति निश्चितम्।एषा घटना भारतीय-विमान-इतिहासस्य अतिवेदनामयी घटना इति गणिता, या नववर्षोत्सवं शोकमध्ये परिणमयामास।

महत्वपूर्णाः ऐतिहासिकाः घटनाः (१ जनवरी)१५१५ — यहूदयः ऑस्ट्रिया-देशस्य लाइबाख-प्रदेशात् निष्कासिताः।१६०० — स्कॉटलैण्ड-देशे २५ मार्चस्थाने १ जनवरीतः नववर्षारम्भः।१६६४ — छत्रपति-शिवाजिना सूरत-अभियानस्य आरम्भः कृतः।१७८५ — डेली युनिवर्सल रजिस्टर (टाइम्स् ऑफ् लण्डन्) इत्यस्य प्रथमाङ्कः प्रकाशितः।१८६२ — भारतीय-दण्ड-संहिता प्रवर्तिता।१८७७ — महाराणी विक्टोरिया भारतस्य साम्राज्ञी अभवत्।१८८० — भारतदेशे मनी-ऑर्डर-प्रणाल्याः आरम्भः।१९१५ — महात्मा-गान्धी दक्षिण-आफ्रिकायां ‘केसर-ए-हिन्द’ सम्मानं लब्धवान्।१९४९ — कश्मीर-प्रदेशे युद्धविरामस्य घोषणा।१९७८ — मुम्बई-नगरे एअर-इण्डिया-विमान-दुर्घटनायां २१३ जनानां निधनम्।१९९५ — विश्व-व्यापार-सङ्घटनम् अस्तित्वं प्राप्तम्।१९९९ — यूरोपस्य ११ देशेषु यूरो-मुद्रायाः प्रचलनम्।२०२० — भारतदेशे नववर्षदिने ६७,३८५ शिशवः जाताः—यूनिसेफ-संस्थानस्य प्रतिवेदनानुसारम्।

जन्मदिनानि१८९४ — सत्येन्द्रनाथ बोसः, प्रख्यातः भारतीय-वैज्ञानिकः।१९२५ — मौलाना वहीदुद्दीन् ख़ानः, इस्लामिक-विद्वान् तथा शान्ति-चिन्तकः।१९३५ — ओमप्रकाश-चौटाला, हरियाणा-राज्यस्य भूतपूर्व-मुख्यमन्त्री।१९४१ — असरानी, ख्यातः हिन्दी-चलच्चित्र-हास्य-अभिनेता।१९५० — राहत् इन्दौरी, प्रसिद्धः उर्दू-कविः।१९७१ — ज्योतिरादित्य-सिन्धिया, भारतीय-राजनीतिज्ञः।१९७५ — सोनाली-बेन्द्रे, हिन्दी-चलच्चित्र-अभिनेत्री।

निधनानि१९५५ — शान्ति-स्वरूप-भटनागरः, प्रख्यातः भारतीय-वैज्ञानिकः।१९६४ — राजेन्द्रसिंह-जी-जडेजा, भारतीय-स्थलसेनायाः प्रथमः सेनाध्यक्षः।२०२३ — नरेन्द्रचन्द्र-देबबर्मा, त्रिपुरा-राज्यस्य राजनीतिज्ञः।

महत्वपूर्ण-दिवसाःआर्मी-मेडिकल्-कोर्-स्थापना-दिवसःराष्ट्रीय-विज्ञान-काङ्ग्रेस-स्थापना-दिवसः

हिन्दुस्थान समाचार / अंशु गुप्ता