Enter your Email Address to subscribe to our newsletters

नव-देहली, ३१ दिसम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी ३ जनवरी दिने नव-देहल्यां स्थिते राय-पिथोरा-सांस्कृतिक-परिसरे पिपरावायाः पवित्र-अवशेषाणां विशेष-प्रदर्शिन्याः उद्घाटनं करिष्यति।संस्कृति-मन्त्रालयेन बुधवासरे सूचितं यत् मन्त्रालयः “लोटस-लाइट : रिलिक्स ऑफ द अवेकन्ड वन” इति शीर्षकेन ऐतिहासिकां सांस्कृतिक-प्रदर्शिनीं आयोजयति। अस्याम् प्रदर्शिन्यां पूजनीयाः पिपरावायाः पवित्र-अवशेषाः, तैः सह सम्बद्धानि च महत्त्वपूर्णानि प्राचीन-वस्तूनि प्रदर्श्यन्ते। एषा प्रदर्शिनी भगवत: बुद्धस्य उपदेशैः सह भारतस्य सभ्यतागत-सम्बन्धं, तथा देशस्य समृद्धे: आध्यात्मिक-परम्परायाः संरक्षणे प्रस्तुते च अस्य प्रतिबद्धतां रेखाङ्कयति।मन्त्रालयस्य मतानुसारं प्रधानमन्त्रिणा अस्याः प्रतिष्ठितायाः प्रदर्शिन्याः उद्घाटनं भारतस्य सांस्कृतिके कूटनीतिके च इतिहासे एकः महत्त्वपूर्णः क्षणः भविष्यति। यतो हि अस्यां प्रदर्शिन्यां समाविष्टाः पवित्र-अवशेषाः ऐतिहासिकं, पुरातात्त्विकं तथा आध्यात्मिकं च महत्त्वं वहन्ति, ये विश्वव्यापिभिः बौद्ध-समुदायैः श्रद्धया पूज्यन्ते। प्रदर्शिन्यां समाविष्टेषु अवशेषेषु अद्यतन-काले स्वदेशं प्रत्यानीताः पवित्र-अवशेषाः अपि सन्ति, येषां महत्त्वं अत्यन्तं विशालं मन्यते।पिपरावायाः एते अवशेषाः उनविंश-शताब्द्याः उत्तरार्धे अन्वेषिताः आसन्, तथा व्यापकं मन्यते यत् ते भगवत: गौतम-बुद्धस्य पार्थिव-अवशेषैः सम्बद्धाः सन्ति, ये शाक्य-वंशेन सुरक्षिताः आसन्। एतेषां अवशेषाणां प्रत्यावर्तनं सार्वजनिक-प्रदर्शनं च भारतस्य सांस्कृतिक-धरोहर-संरक्षणस्य प्रयासान्, तथा बुद्धस्य शान्ति-करुणा-प्रबोधन-स्वरूपाणां सार्वभौमिक-शिक्षाणां प्रचारं च स्पष्टतया दर्शयति।प्रदर्शिन्यां पिपरावायाः पवित्र-अवशेषैः सह सम्बद्धाः प्राचीन-वस्तवः, तथा तेषां ऐतिहासिक-आध्यात्मिक-पुरातात्त्विक-सन्दर्भं प्रकाशयन्तः विशेषतया क्यूरेटेड्-प्रदर्शनं समाविष्टं भविष्यति। अपि च बौद्ध-धर्मस्य जन्मभूमिरूपेण भारतस्य भूमिकां रेखाङ्कयन्त्यः व्याख्यात्मक-प्रस्तुतयः अपि अस्याः प्रदर्शिन्याः अङ्गभूता: भविष्यन्ति। एषा प्रदर्शिनी विद्वद्भ्यः, श्रद्धालुभ्यः तथा सामान्य-जनेभ्य: च समृद्धम् अनुभवमप्रदानमुद्दिश्य विनिर्मिता अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता