Enter your Email Address to subscribe to our newsletters

तिरुवनन्तपुरम्, ३० दिसम्बरमास: (हि.स.)। भारतीय-महिला-क्रिकेट-दलेन पञ्चमे अन्तिमे च टी–२०-क्रीडायाम् श्रीलङ्का-दलं १५ धावनैः पराजित्य श्रृङ्खलां ५–० इत्यस्मात् स्वनाम्ना कृतम्। अनेन सह भारतदेशेन तृतीयवारं कस्यचित् दलस्य विरुद्धं टी–२०-श्रृङ्खलायां ५–० इत्यस्मात् पूर्णत: विजयः साधितः। अतो पूर्वं भारतीय-दलेन वेस्टइण्डीज-बाङ्ग्लादेश-दलाभ्याम् अपि एतादृशेन एव अन्तरालेन पराजयः दत्तः।
ग्रीनफील्ड-स्टेडियम-मध्ये आयोजितायाम् अस्यां क्रीडायाम् श्रीलङ्का-दलेन टॉस-जयं लब्ध्वा पूर्वं कन्दुक-प्रक्षेपणम् अङ्गीकृतम्। भारत-दलेन तु प्रमुख-हरमनप्रीतकौर-इत्यस्याः उत्कृष्ट-अर्धशतकेन साहाय्येन ७ विकेट-नष्टे १७५ धावनानि सङ्गृहीतानि। प्रत्युत्तररूपेण श्रीलङ्का-दलं ७ विकेट-नष्टे १६० धावनानि एव निर्मितानि, लक्ष्याद् १५ धावनैः दूरमेव स्थितम्।
भारत-पक्षतः प्रमुखा हरमनप्रीतकौर-इत्यनया उत्तरदायित्वपूर्णा क्रीडा क्रीडिता। सा ४३ कन्दुकेषु ९ चतुरः १ षट्केन च सह ६८ धावनानि अकरोत्। तस्याः अतिरिक्तं अरुन्धती रेड्डी २७ धावनानि, अमनजोतकौर: २१ धावनानि च निर्मितवत्य:। श्रीलङ्का-पक्षतः चमारी-अट्टापट्टु, कविषा दिलहारी, रश्मिका सेवन्दी इत्येताः द्वि-द्वि-विकेट्-ग्राहिण्यः अभवन्।
लक्ष्य-अनुसरणाय अवतीर्णस्य श्रीलङ्का-दलस्य आरम्भः दुर्बलः आसीत्, द्वितीये एव ओवरमध्ये प्रमुखचमारी-अट्टापट्टु इत्येषा पवेलियन-प्रत्यावर्तिता। ततः हसिनी-परेरा तथा इमेशा-दुलानी इत्यनयोः मध्ये ७९-धावनात्मक-सहभागिता जाता, येन क्रीडा स्थिरतां प्राप्ता। इमेशादुलानी अर्धशतकं कृतवती, हसिनीपरेरा च ६५ धावनानि अकरोत्। किन्तु तयोः निर्गमनेन अनन्तरं श्रीलङ्का-क्रीडा विचलिता, दलं च विजयात् वञ्चितम्।
भारत-पक्षतः श्रीचरणी, स्नेह-राणा, वैष्णवीशर्मा, दीप्तिशर्मा, अरुन्धतीरेड्डी, अमनजोतकौर- इत्येताभिः एकैकं विकेट-गृहीतम्, अपरः एकः क्रीडकः धावन-बहिर्गतया (रन-आउट्) निष्कासितः।श्रृङ्खलायाः पञ्च क्रीडाः द्वयोः स्थलेषु आयोजिताः। आद्ये द्वे क्रीडे विशाखापट्टनम्-नगरे, अन्तिमाः तिस्र: तिरुवनन्तपुरम्-नगरे आयोजिताः। भारत-दलेन आद्याः थिस्र: क्रीडाः क्रमशः ८, ७ तथा ८ विकेटैः विजिताः, चतुर्थे ३० धावनैः, पञ्चमे च १५ धावनैः विजयः प्राप्तः।
श्रृङ्खलायां बल्लेबाजी-इत्यत्र भारत-पक्षतः शेफाली वर्मा सर्वाधिक-सफलाभवत्। सा पञ्च क्रीडासु ८०.३३ औसतेन २४१ धावनानि अकरोत्, यत्र ३६ चतुरः ५ षट्काः अन्तर्भूताः। श्रीलङ्का-पक्षतः हसिनीपरेरा १६५ धावनैः दलस्य कृते सर्वाधिक-धावन-सङ्ग्राहिका अभवत्।
कन्दुक-प्रक्षेपणे भारत-पक्षतः दीप्ति शर्मा, वैष्णवी शर्मा, श्रीचरणी इत्येताः पञ्च-पञ्च विकेट्-ग्राहिण्यः अभवन्। श्रीलङ्का-पक्षतः कविषा-दिलहारी अपि पञ्च विकेट्-ग्रहणेन स्वदलस्य सर्वाधिक-सफल-कन्दुक-प्रक्षेपिका अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता