Enter your Email Address to subscribe to our newsletters

रायपुरम्, 31 दिसंबरमासः (हि.स.)।
शासनस्य महत्त्वाकाङ्क्षिण्याः योजनायाः जलजीवनमिशन इत्यस्य माध्यमेन मुङ्गेली-जिले “प्रत्येकगृहं नलात् शुद्धजलम्” इति लक्ष्यस्य सिद्ध्यर्थं उल्लेखनीया प्रगति: साधिता अस्ति। सर्वेषु 674 ग्रामेषु गृहे गृहे शुद्धपेयजल-पुरवठनार्थं शीघ्रं कार्याणि प्रवर्तन्ते। अद्यावधि एकलक्ष- अष्टचत्वारिंशद् सहस्र- अष्टशत्-पञ्चसप्ततिः (148875) परिवाराणि नलकनेक्शनेन उपकृतानि, येन ग्राम्यजीवने सुखदः परिवर्तनः जातः।
योजनान्तर्गतं यावत् 236 ग्रामाः “हर घर जल” ग्राम-इति घोषिताः, च तेषां सम्बन्धित-ग्रामपञ्चायतभ्यः योजनानां विधिवत् हस्तान्तरणं कृतम्। अवशिष्टेषु ग्रामेषु अपि कार्यं अन्तिम-अवस्थायां वर्तते तथा च शीघ्रमेव तान् “हर घर जल” इति घोषितुं प्रक्रिया प्रवहति।
विकासखण्ड-मुङ्गेली- अन्तर्गतासु 126 ग्रामपञ्चायतीषु 263 ग्रामाणां कृते स्वीकृतानां योजनानां मध्ये शतम् ग्रामेषु कार्यं पूर्णम्। चतुर्नवत्यधिक-ग्रामेषु “हर घर जल” इति कार्यं सम्पन्नं कृत्वा योजनानां संचालनं ग्रामपञ्चायतेव कुर्वन्ति। अनन्तरं स्वीकृतानां 215 उच्चस्तरीय-जलागाराणां मध्ये 141 जलागाराणां निर्माणकार्यं सम्पन्नम्।
जिलस्य सेतगङ्गा-ग्रामे राष्ट्रिय-राजमार्गस्य विस्तारकारणात् पाइपलाइन-स्थानान्तरणं क्रियते। विचापुर-ग्रामे शुक्लामाठा-ग्रामे च परीक्षणानन्तरं आंशिक-जलप्रदानं प्रारब्धम्। नागपहरी-मुढापार-ग्रामयोः योजना-समाप्तिः कृत्वा ग्रामपञ्चयते हस्तान्तरणं कृतम्। बिजातराई-ग्रामे कार्यं प्रगतिपथे अस्ति, तरकपुर-ग्रामे परीक्षणम् आवश्यक-संशोधनकार्यं च प्रवर्तते। कञ्चनपुर-ग्रामे सौर-पट्टिकानां चोरी-घटनया विघ्नितं जलप्रदानं पुनर्बहालीकरणाय कार्यवाही क्रियते।
जिलाधिकारिणा जलजीवनमिशन-योजनानां प्रभावी-कार्यन्वयनस्य निमित्तं जिलाजल-स्वच्छतासमित्याः नियमितोपवेशनानि आयोजितानि सन्ति।
---------------
हिन्दुस्थान समाचार