Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, ३१ दिसम्बरमास: (हि.स.)। ऊर्जा-मन्त्री प्रद्युम्न-सिंह-तोमरः अवदत् यत् मध्यप्रदेशे गत-३ नवम्बर-दिनाङ्कात् आरब्धा समाधान-योजना २०२५–२६ अन्तर्गतं सरचार्ज-इत्यत्र शतप्रतिशतपर्यन्तं विमुक्तताया: लाभं प्राप्तुम् अद्य (३१ दिसम्बर) अन्तिमः दिवसः अस्ति। अस्याः योजनायाः लाभं लक्षशः अवशिष्टा-उपभोक्तारः उपयुंक्ते। तेन उपभोक्तॄन् प्रति आह्वानं कृतं यत् ये उपभोक्तारः त्रिमासाधिकेभ्य: अवशिष्टा: सन्ति, ते योजनायाः प्रथम-चरणे अद्य एव एकसार्धम् अवशिष्ट-विद्युत्-पणकं समर्प्य शतप्रतिशतपर्यन्तं सरचार्ज-क्षमाया: लाभं प्राप्नुवन्तु।
वस्तुतः प्रदेश-सर्वकारेण प्रवर्तिता समाधान-योजना २०२५–२६ इत्यस्य प्रथमः चरणः वर्तमानः अस्ति, यः अद्य ३१ दिसम्बर-दिनाङ्के समाप्तिं गच्छति। अद्यतन-दिवसः एव अवशिष्टः अस्ति। अस्मिन् चरणे उपभोक्तृभ्यः सरचार्ज-इत्यत्र अधिकतम-विमुक्तताया: लाभः प्रदीयते। यद्यपि १ जनवरी-दिनाङ्कात् २८ फरवरी २०२६ पर्यन्तं द्वितीयः चरणः प्रवर्तिष्यते, तथापि तस्मिन् चरणे सरचार्ज-क्षमाया: प्रतिशतं न्यूनं भविष्यति। अतः उपभोक्तॄन् प्रति सूचना कृता यत् प्रथम-चरणे अद्य एव योजनायां सम्मिल्य अधिकतमं लाभं गृह्णन्तु।
ऊर्जा-मन्त्री तोमरः अवदत् यत् अद्यावधि मध्य-क्षेत्र-विधुत्-वितरण-निर्माण्य: २,९०,७८६ अवशिष्ट-उपभोक्तारः पञ्जीकरणं कृत्वा योजनायाः लाभं प्राप्तवन्तः। मध्य-क्षेत्र-विद्युत्-वितरण-निर्माणीनां धनागारेषु ३०४ कोटि ६२ लक्षाधिकं मूलधनं आगतम् अस्ति, तथा च १६१ कोटि ३९ लक्षाधिकस्य सरचार्ज-इत्यस्य क्षमा कृता अस्ति।
समाधान-योजना २०२५–२६ : एकावलोकने समाधान-योजना २०२५–२६ इत्यस्य उद्देश्यं त्रिमासाधिक-अवशिष्ट- कालावधियुक्तानां उपभोक्तॄणां विलम्बित-भुगतान-सरचार्ज-इत्यत्र विमुक्त-प्रदानम् अस्ति। एषा योजना “शीघ्रम् आगच्छत, एकसार्धं प्रयच्छन्तु, अधिकं लाभं गृह्णन्तु” इति सिद्धान्ते आधृता अस्ति।
प्रथम-चरणे एकसार्धं प्रदीयमानस्य उपभोक्तु: अधिकतमः लाभः भवति, द्वितीय-चरणे तु विमुक्तताप्रतिशतं क्रमशः न्यूनं भवति। एषा योजना द्वौ चरणौ धारयति।
प्रथमः चरणः : ३ नवम्बर २०२५ तः ३१ दिसम्बर २०२५ पर्यन्तम्— अस्मिन् चरणे ६० प्रतिशततः आरभ्य १०० प्रतिशतपर्यन्तं सरचार्ज-क्षमा प्रदीयते।
द्वितीयः (अन्तिमः) चरणः : १ जनवरी २०२६ तः २८ फरवरी २०२६ पर्यन्तम्— अस्मिन् चरणे ५० प्रतिशततः ९० प्रतिशतपर्यन्तं सरचार्ज-क्षमा प्रदीयते।
समाधान-योजना २०२५–२६ अन्तर्गतं लाभं प्राप्तुम् उपभोक्तृभिः मध्यप्रदेश-मध्य-क्षेत्र-विद्युत्-वितरण-निर्माणी, भोपाल इत्यस्य portal.mpcz.in इति जालस्थले पञ्जीकरणं करणीयम्। ‘उपाय’ अनुप्रयोगे, ‘कॉमन सर्विस सेन्टर’ (CSC) तथा ‘एमपी ऑनलाइन’ माध्यमेनापि पञ्जीकरण-सुविधा उपलब्धा अस्ति।
पञ्जीकरण-काले उपभोक्ता-श्रेणीभेदेन पञ्जीकरण-राशिः निर्धारिता अस्ति यत् गृहस्थ एवं कृषि-उपभोक्तारः कुल-बकाया-राशेः १० प्रतिशतं गैर-गृहस्थ एवं औद्योगिक-उपभोक्तारः कुल-बकाया-राशेः २५ प्रतिशतम्। एतां राशिं समर्प्य पञ्जीकरणं कृत्वा योजना-अन्तर्गतं लाभं प्राप्तुं शक्यते। विस्तृतं विवरणं त्रयाणाम् अपि निर्माणीनां जालस्थलेषु उपलब्धम् अस्ति; उपभोक्तारः समीपस्थे विधुत्-वितरण-केन्द्रे गत्वाऽपि योजनायाः विषये सूचनां प्राप्तुं शक्नुवन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani