Enter your Email Address to subscribe to our newsletters


उज्जयिनी-नगरम्, ३१ दिसम्बरमास: (हि.स.)। आङ्ग्ल-नववर्षस्य आगमन-सन्दर्भे वर्षस्य अन्तिमे दिवसे पौष-मासस्य शुक्ल-पक्षस्य द्वादशी-तिथौ बुधवासरे प्रातः ४ वादनसमये महाकालेश्वर-मन्दिरे कपाटाः उद्घाटिताः। विशेष-शृङ्गारेण सह भस्म-आरती सम्पन्ना। अस्मिन् अवसरे भगवान् महाकालस्य दिव्यः शृङ्गारः कृतः।
मन्दिरस्य कपाटोद्घाटनानन्तरं पूजकैः गर्भगृहे प्रतिष्ठितानां सर्वा: देवी-देवताः पूजिताः, ततः भगवान् महाकालस्य जलाभिषेकः कृतः। अनन्तरं क्षीर-दधि-घृत-मधु-फलरसैः निर्मितेन पञ्चामृतेन अभिषेक-पूजनं सम्पन्नम्। बाबा-महाकालस्य मस्तके चन्द्रार्पणं कृत्वा दिव्य-शृङ्गारः विहितः। प्रभाते भस्म-आरार्तिक्यां शतं श्रद्धालव: दर्शनं कृत्वा पुण्य-लाभं प्राप्तवन्तः। श्रद्धालवः नन्दी-महाराजस्य दर्शनं कृत्वा तस्य कर्ण-समीपे स्वेषां मनोकामनानां पूर्तये आशीर्वादं याचितवन्तः। सम्पूर्णं मन्दिर-परिसरं “बाबा-महाकालस्य जयः” इति जयघोषैः गुञ्जितम्।
इत्येतस्मिन् काले नगर्याम् अद्य ३१ दिसम्बर (बुधवासरे) तथा १ जनवरी-दिने महाकालेश्वर-मन्दिर-दर्शनार्थं आगच्छतां श्रद्धालूनां अत्यधिक-सम्मर्दं दृष्ट्वा यातायात-थाना-आरक्षीद्वारा नगरस्य यातायात-व्यवस्थां सम्यक् कर्तुं, सम्मर्द-स्थितेः निवारणाय, श्रद्धालूनां सुरक्षार्थं च विशेषा यातायात-व्यवस्था, वाहन-पार्किङ्-व्यवस्था तथा मार्ग-परिवर्तन-व्यवस्था प्रवर्तिता अस्ति।
पुलिस-अधीक्षकः प्रदीप-शर्मा तथा यातायात-उपाधीक्षकः दिलीपसिंह-परिहारः अवदताम् यत् बुधवासरे गुरुवासरे च व्यवस्थाः अधोलिखितरूपेण भविष्यन्ति— दर्शन-व्यवस्था सर्वे श्रद्धालवः निर्धारितेषु पार्किङ्-स्थलेषु वाहनानि स्थापयित्वा शक्तिपथ-पादपथमार्गेण, इण्टरप्रिटेशन-सेण्टरं मार्गीकृत्य, महाकालेश्वर-मन्दिरे दर्शनं करिष्यन्ति।
चतुश्चक्र-वाहन-पार्किङ्-व्यवस्था इन्दौर-/देवास-/मक्सी-मार्गेण आगच्छन्ति वाहनानि—इञ्जिनियरिङ्-कॉलेज-त्रिराहः, हरिफाटक-चौराहा, लालपुल-टर्निङ्, कर्कराज-पार्किङ्, इण्टरप्रिटेशन-पार्किङ् तथा भील-समाज-पार्किङ्-स्थलेषु स्थापयिष्यन्ते।
एतेषां पार्किङ्-स्थलानां पूर्तौ मनन्त-गार्डन-पार्किङ्, इम्पीरियल-होटल-पृष्ठे पार्किङ् तथा हरिफाटक-सेतु-अधः पार्किङ् उपयोगे नीयते।
बड़नगर-/नागदा-मार्गेण आगच्छन्ति वाहनानि मोहनपुरा-सेतुं, मुरलीपुरा, शंकराचार्य-चतुष्पथं गत्वा कार्तिक-मेला-क्षेत्रे स्थापयिष्यन्ते।
आगर-मार्गेण आगच्छन्ति वाहनानि मकोड़िया-आम्रवाटिका, खाकचतुष्पथम्, जाट-धर्मशाला, जूना-सोमवारिया मार्गेण कार्तिक-मेला-क्षेत्रे स्थापयिष्यन्ते। कार्तिक-मेला-प्रांगणस्य पूर्तौ वाहनानि कृषि-उपार्जन-प्रांगणे स्थापयिष्यन्ते।
द्विचक्र-वाहन-पार्किङ्इन्दौर/देवास/मक्सी-मार्गः—हरिफाटक-चतुष्पथ:, लालपुल-टर्निङ्, भील-समाज तथा कर्कराज-पार्किङ्।
बड़नगर/आगर/नागदा-मार्गः—हरिसिद्धि-पाल-पार्किङ्।हरिसिद्धि-पाल-पार्किङ्-पूर्तौ—शंकराचार्य-चतुष्पथ-समीपे गुरुद्वारा-भूमिः।
श्रद्धालूनां कृते बस-सेवाहरिफाटक-चौराहात् चारधाम-टर्निङ्-पर्यन्तं नगर-निगमेन बस्-सेवा उपलब्धा भविष्यति।
भारी-वाहन-मार्ग-परिवर्तनम्विविधमार्गेण आगच्छन्ति गच्छन्ति च भारी-वाहनानि निर्दिष्टेषु वैकल्पिकेषु मार्गेषु नियोजिताः भविष्यन्ति।
नगरवासिनः अवधानं कुर्वन्तु — वाहन-प्रवेश-निषेधः बुधवासरे प्रातः ४ वादनसमयात् अधोलिखितेषु मार्गेषु त्रिचक्र-चतुश्चक्र-वाहनानां प्रवेशः पूर्णतया निषिद्धः भविष्यति— हरिफाटक-टी, जन्तर-मन्तर, शंकराचार्य-चौराहा, भूखीमाता-टर्निङ्, दौलतगञ्ज, कंठाल-चतुष्पथ, तेलीवाड़ा, दानीगेट, के.डी.-गेट, भागीरथ-त्रिराह: इत्यादयः मार्गाः।
हिन्दुस्थान समाचार / Dheeraj Maithani