‘परीक्षा पे चर्चा’ कार्यक्रमे नवीनः कीर्तिमानः स्थापितः, त्रयः कोट्यधिकानि पञ्जीकरणानि।
नव-देहली, ३१ दिसम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्र-मोदिनाऽरब्धं प्रमुखं प्रयत्नं— ‘परीक्षा पे चर्चा’ (पीपीसी)—नवीनं कीर्तिमानं स्थापितम्। ३० दिसम्बर २०२५ पर्यन्तं छात्राणां, अभिभावकानां तथा अध्यापकानां त्रयः कोट्यधिकानि पञ्जीकरणानि अभिलेखित
प्रधानमंत्री मोदी के परीक्षा पे चर्चा (पीपीसी) का पोस्टर


नव-देहली, ३१ दिसम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्र-मोदिनाऽरब्धं प्रमुखं प्रयत्नं— ‘परीक्षा पे चर्चा’ (पीपीसी)—नवीनं कीर्तिमानं स्थापितम्। ३० दिसम्बर २०२५ पर्यन्तं छात्राणां, अभिभावकानां तथा अध्यापकानां त्रयः कोट्यधिकानि पञ्जीकरणानि अभिलेखितानि सन्ति।शिक्षा-मन्त्रालयेन बुधवासरे अत्र प्रकाशिते विज्ञप्तौ उक्तं यत् ‘परीक्षा पे चर्चा’ कार्यक्रमस्य नवमं संस्करणं जनवरी २०२६ मासे आयोज्यते। मन्त्रालयस्य मतानुसारं, पञ्जीकरणानाम् एतादृशी विशाल-संख्या कार्यक्रमस्य वर्धमान-लोकप्रियतां सूचयति, अपि च छात्राणां मानसिक-स्वास्थ्य-संबद्धानां विषयाणां समाधानं कर्तुम् अस्य सफलताम् अपि रेखाङ्कयति। अयं कार्यक्रमः परीक्षासु सकारात्मकं तथा आत्मविश्वासपूर्णं दृष्टिकोणं प्रवर्धयति।मन्त्रालयेन अधिकं स्पष्टीकृतं यत् एतादृशी व्यापक-सहभागितां प्रमाणयति— ‘परीक्षा पे चर्चा’ अधुना एकं सत्यमेव जन-आन्दोलनं जातम्, यत् देशव्यापिविद्यार्थिभिः अध्यापकैश्च सह प्रगाढं सम्बन्धं स्थापयति।‘परीक्षा पे चर्चा’ वर्ष २०२६ कृते ऑनलाइन-पञ्जीकरणं १ दिसम्बर २०२५ तः मायगव-पोर्टलमाध्यमेन आरब्धम्। शिक्षा-मन्त्रालयस्य अधीनस्थेन विद्यालय-शिक्षा-साक्षरता-विभागेन प्रतिवर्षम् आयोज्यमानः अयं कार्यक्रमः कालेन कालेन अध्ययन-संवादयोः बहुप्रतीक्षित: मंच: जातः, यः छात्रान्, अभिभावकान् तथा अध्यापकान् एकस्मिन् मंचे सहभागं कारयति।

हिन्दुस्थान समाचार / अंशु गुप्ता