एल.मुरुगनः २०२६-वर्षाय भारत-सर्वकारस्य आधिकारिक-कलान्तरस्य विमोचनं कृतवान्
नवदिल्ली, ३१ दिसम्बरमासः (हि.स.)। सूचना-प्रसारण-राज्य-मन्त्री डॉ.एल.मुरुगनः बुधवासरे २०२६ वर्षस्य कृते भारत-सर्वकारस्य आधिकारिक-कलान्तरस्य विमोचनं कृतवान्। अस्य वर्षस्य कलान्तरस्य विषय-वाक्यं “भारत @ २०२६ : सेवा, सुशासनं च समृद्धिः” इति निश्चितम् अ
सूचना एवं प्रसारण राज्य मंत्री डॉ. एल. मुरुगन बुधवार को वर्ष 2026 के लिए भारत सरकार का आधिकारिक कैलेंडर जारी  करते हुए


नवदिल्ली, ३१ दिसम्बरमासः (हि.स.)। सूचना-प्रसारण-राज्य-मन्त्री डॉ.एल.मुरुगनः बुधवासरे २०२६ वर्षस्य कृते भारत-सर्वकारस्य आधिकारिक-कलान्तरस्य विमोचनं कृतवान्। अस्य वर्षस्य कलान्तरस्य विषय-वाक्यं “भारत @ २०२६ : सेवा, सुशासनं च समृद्धिः” इति निश्चितम् अस्ति।अस्मिन् अवसरे डॉ.मुरुगनः अवदत् यत् २०२५ तमे वर्षे शासनद्वारा कृतानि अनेकानि महत्त्वपूर्णसंशोधनानि विकसित-भारतं २०४७ इति दिशं प्रति देशस्य राष्ट्रीय-यात्रायाः एकं महत्त्वपूर्णम् अध्यायमस्ति। तेनोक्तं यत् एतेषां संशोधनानाम् उद्देश्यं समावेशी-विकासस्य प्रवर्धनम्, अर्थव्यवस्थायाः सुदृढीकरणं तथा देशस्य दीर्घकालिक-विकासाय स्थायि-आधारस्य निर्माणं च अस्ति। तेन उक्तं यत् एतेषां प्रयासानां केन्द्रे आर्थिक-तथा-कर-संशोधनानि आसन्, येषां लक्ष्यं नागरिकेषु भारस्य न्यूनता तथा स्वैच्छिक-अनुपालनस्य प्रोत्साहनं च आसीत्।सूचना-प्रसारण-मन्त्रालयस्य सचिवः संजय-जाजूः अवदत् यत् “भारत @ २०२६ : सेवा, सुशासनं च समृद्धिः” इति विषय-वाक्ये आधारितं एतत् कलान्तरं भारतं परिवर्तनस्य एकस्मिन् महत्त्वपूर्णे काले चित्रयति। सः प्रधानमन्त्री नरेन्द्र-मोदी-महोदयस्य कथनं स्मारयन् अवदत् यत् देशः “रिफॉर्म-एक्सप्रेस्” नाम्नि यात्रायाने आरूढः अस्ति, यस्मिन् संशोधनेन सह समावेशः तथा आशाः अपि अन्तर्भूताः सन्ति। एतत् कलान्तरं तस्यैव दृष्टेः साकारतां साधयितुं प्रयत्नं करोति।जाजूः अपि अवदत् यत् कलान्तरे एषा व्यापक-दृष्टिः सरल-रूपेण मासिक-विषयेषु प्रस्तुताऽस्ति, या देशस्य विभिन्न-क्षेत्राणां, समुदायानां तथा पीढीनां प्रतिनिधित्वं करोति।अस्मिन् अवसरे सूचना-प्रसारण-मन्त्रालयस्य अतिरिक्त-सचिवः प्रभातः, पीआईबी-महानिदेशिका अनुपमा-भटनागर:, तथा सीबीसी-महानिदेशिका कञ्चन-प्रसादः इत्यादय: उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता