Enter your Email Address to subscribe to our newsletters

नव-देहली, ३१ दिसम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्र-मोदिनाऽपि केन्द्रीय-गृहमन्त्रिणा अमित-शाहेन च सह अनेकेन नेतृवर्गेण अयोध्यायां रामललायाः प्राणप्रतिष्ठायाः द्वितीय-वर्षोत्सवे देशवासिभ्यः शुभेच्छाः प्रदत्ताः।
प्रधानमन्त्री बुधवासरे ‘एक्स’ माध्यमेन देशवासिभ्यः शुभेच्छाः दत्त्वा अवदत् यत्— अद्य अयोध्यायाः पावनधरायां रामललायाः प्राणप्रतिष्ठायाः द्वितीय-वर्षोत्सव: आचर्यते। एष: वर्षोत्सव: अस्माकं आस्थायाः संस्काराणां च एकः दिव्यः उत्सवः अस्ति। अस्मिन् पावन-पुनीते अवसरे देश-विदेशयोः सर्वेषां रामभक्तानां प्रभोः श्रीरामस्य चरणयोः मम नमनं वन्दनं च। समस्तेभ्यः देशवासिभ्यः मम अनन्ताः शुभेच्छाः।
प्रधानमन्त्री अवदत् यत् मर्यादा-पुरुषोत्तमस्य प्रभोः श्रीरामस्य प्रेरणा प्रत्येकस्य देशवासिनः हृदये सेवा-समर्पण-करुणा-भावनां अधिकं प्रगाढां करोतु, या समृद्धस्य आत्मनिर्भरस्य च भारतस्य निर्माणाय सशक्तं आधारं भवेत्।
केन्द्रीय-गृहमन्त्री अमित-शाहः अपि प्राणप्रतिष्ठायाः द्वितीय-वर्षोत्सवे सर्वेभ्यः शुभेच्छाः प्रदाय अवदत् यत्— अद्य एव अस्यां शुभतिथौ द्वे वर्षे पूर्वं पञ्चशत-वर्षाणां प्रतीक्षा समाप्ता अभवत्, यदा प्रधानमन्त्रिणा मोदिना अयोध्यायां श्रीराम-जन्मभूमि-मन्दिरे रामललायाः प्राणप्रतिष्ठा कृता। प्रभोः श्रीरामस्य आदर्शानां जीवन-मूल्यानां च पुनः-स्थापनायाः प्रतीकम् एतत् मन्दिरं धर्म-रक्षणार्थं संघर्षस्य, सांस्कृतिक-स्वाभिमानार्थं त्यागस्य, विरासत-रक्षणार्थं बलिदानस्य च अनुपमां प्रेरणां दास्यति। अस्मिन् अवसरे तेन श्रीराम-जन्मभूमि-आन्दोलनस्य सर्वान् बलिदानिनः नताञ्जलिं दत्तवान्।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः ‘एक्स' माध्यमेन अलिखत् यत्— भारतस्य चेतनायाः उत्कर्षस्य साक्षिणी अयोध्या-नगरी अद्य प्रभोः श्रीरामललायाः नूतन-विग्रहस्य प्राणप्रतिष्ठायाः द्वितीय-वर्षोत्सवस्य पावनं दिनम् अनुभवति। श्रीराम-जन्मभूमि-मन्दिरे रामललायाः विराजमानत्वं अस्य प्रतीकं यत् शताब्दीनां संघर्षस्य समाप्तिः जाता, वेदनायाः च विरामः प्राप्तः। अस्माकं त्रयाणां पीढीनां साधनायाः संघर्षस्य च, पूज्य-साधु-सन्त-गणस्य आशीर्वादस्य, चतुर्दश-कोटि-देशवासिनां विश्वासस्य च एषा एव परिणतिः अस्ति यत् वयं अद्य अस्य पावन-क्षणस्य साक्षिणः स्मः। अद्य प्रत्येकस्य रामभक्तस्य हृदये सन्तोषः वर्तते।
उत्तराखण्डस्य मुख्यमन्त्री पुष्कर-सिंह-धामी अवदत् यत् रामललायाः प्राणप्रतिष्ठायाः द्वितीय-वर्षोत्सवस्य अयं शुभः क्षणः समस्तेभ्यः देशवासिभ्यः श्रद्धा-संकल्प-आत्मिक-आनन्दस्य प्रतीकः अस्ति। तस्य प्रार्थना अस्ति यत् मर्यादा-पुरुषोत्तमस्य प्रभोः श्रीरामस्य कृपया भवतः जीवनं सदा शान्ति-सद्भाव-उन्नति-प्रकाशेन आलोकितं भवतु। अयोध्यायां स्थितं श्रीराम-मन्दिरं केवलं निर्माणं न, अपि तु प्रत्येकं सनातनिनः आस्थायाः तपसः विश्वासस्य च विजयः अस्ति। एतत् धाम सनातन-संस्कृतेः जीवन्ता अभिव्यक्तिः भूत्वा समाजं एकता-मूल्यैः राष्ट्र-चेतनया च संयोजयति।
राजस्थानस्य मुख्यमन्त्री भजनलाल-शर्मा शुभेच्छाः दत्त्वा अवदत् यत्— कालचक्रस्य साक्षिणी अयोध्या-नगरी अद्य आस्था-संघर्ष-अटूट-विश्वासानां अमर-गाथायाः भव्यं उत्सवं आचरति। श्रीराम-जन्मभूमि-मन्दिरे रामललायाः दिव्यं विराजमान-स्वरूपं शताब्दीनां तपस्यायाः, पीडायाः अन्तस्य, धैर्य-संकल्पयोः विजयस्य च प्रतीकं वर्तते। अद्य प्रत्येकस्य रामभक्तस्य हृदयं श्रद्धा-गौरव-आनन्दैः आप्लावितम् अस्ति।
उल्लेखनीयं यत् २२ जनवरी २०२४ (पञ्चाङ्गानुसारं विक्रम-संवत् २०८० पौष-शुक्ल-द्वादशी) दिने उत्तरप्रदेशस्य अयोध्यायां प्रधानमन्त्रिणा नरेन्द्र-मोदिनः उपस्थितौ श्रीराम-जन्मभूमि-मन्दिरस्य प्राणप्रतिष्ठा समपादिता आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता