(वार्षिकी–२०२५) मध्यप्रदेशे कृषक-केन्द्रितं महत्तम: प्रयत्न: — भावान्तर-योजना अन्नदातृणां कृते अभवत् वरदानम्
भोपालम्, ३१ दिसम्बरमासः (हि.स.)। वर्षः २०२५ मध्यप्रदेशस्य कृषि-इतिहासे तादृशं वर्षत्वेन अभिलेखितः भवति, यस्मिन् शासनेन स्वीकृताः नीतयः प्रत्यक्षं क्षेत्रे कृषकस्य आयेन सह सम्बद्धाः दृश्यन्ते। अस्मिन् वर्षे यदि काचित् योजना सर्वाधिकं प्रभावशालित्वे
भावांतर योजना बनी मध्य प्रदेश के अन्नदाताओं के लिए वरदान


भोपालम्, ३१ दिसम्बरमासः (हि.स.)।

वर्षः २०२५ मध्यप्रदेशस्य कृषि-इतिहासे तादृशं वर्षत्वेन अभिलेखितः भवति, यस्मिन् शासनेन स्वीकृताः नीतयः प्रत्यक्षं क्षेत्रे कृषकस्य आयेन सह सम्बद्धाः दृश्यन्ते। अस्मिन् वर्षे यदि काचित् योजना सर्वाधिकं प्रभावशालित्वेन केन्द्र-बिन्दु-रूपेण उदभवत्, सा सोयाबीन-कृषकाणां कृते भावान्तर-भुगतान-योजना एव अस्ति। खरीफ-२०२५ मध्ये अस्याः योजनायाः प्रभावी पुनरारम्भेण एतत् स्पष्टं जातं यत् मध्यप्रदेश-शासनं कृषकेभ्य: वास्तविकीम् आर्थिक-सुरक्षां प्रदातुम् इच्छति। विशेषतः सोयाबीन-उत्पादक-कृषकाणां कृते एषा योजना वरदान-तुल्या मन्यते।

मध्यप्रदेशदेशस्य सर्वाधिकं सोयाबीन-उत्पादक-राज्यम् अस्ति। प्रदेशस्य लक्षशः कृषकाः स्व-आजीविकायै अस्यां तिलहनिसस्याश्रिताः सन्ति। किन्तु विगतेषु किञ्चन वर्षेषु अन्ताराष्ट्रिय-विपणि-स्थितिः, आन्तरिक-याचना तथा मौसमीय-परिवर्तनानि च कारणीकृत्य विपणीषु सोयाबीन-मूल्यं बहुधा न्यूनतम-समर्थन-मूल्यात् अधः पतितम्। अस्य प्रत्यक्षः प्रभावः कृषकस्य आये दृश्यते स्म। एतादृशे काले २०२५ तमे वर्षे भावान्तर-योजनायाः पुनः प्रवर्तनं कृषकाणां कृते विश्वास-कवच-रूपेण अभवत्।

प्रधानमन्त्री-अन्नदाता-आय-संरक्षण-अभियानान्तर्गतं मध्यप्रदेश-शासनस्य कृषक-कल्याण-तथा-कृषि-विकास-विभागेन खरीफ-२०२५ कृते सोयाबीन-विषये भावान्तर-योजनायाः प्रवर्तनं घोषितम्। अस्यां योजनायां कृषकाणां कृते प्रति-कुन्तलम् ५३२८ रूप्यकाणि न्यूनतम-समर्थन-मूल्य-रूपेण सुनिश्चितानि। यदि कृषकं विपण्याम् एतस्मात् न्यून-मूल्ये स्व-उपजं विक्रेतुं बाध्यते, तर्हि न्यूनतम-समर्थन-मूल्यस्य तथा विपण-निश्चित-मूल्यस्य अथवा वास्तविक-विक्रय-मूल्यस्य अन्तरं शासनद्वारा प्रत्यक्षं कृषकस्य धनागारे प्रेषयिष्यते। अतः विपणि-स्थितिः यथाकथञ्चित् भवतु, कृषकस्य आय: सुरक्षित: सुनिश्चित: च एव अस्ति।

योजनायाः पुनः आरम्भः अक्टूबर-मासे २०२५ अभवत्। ३ अक्टूबरतः २५ अक्टूबरपर्यन्तं ई-उपार्जन-पोर्टल-माध्यमेन कृषकाणां पञ्जीकरणं कृतम्, तथा विपणीषु सोयाबीन-विक्रयः २४ अक्टूबर २०२५ तः १५ जनवरी २०२६ पर्यन्तं निश्चितः आसीत्। भावान्तर-राशेः प्रदानं १ नवम्बर २०२५ तः ३१ जनवरी २०२६ पर्यन्तं करणीयमिति निश्चितम् अस्ति। सम्पूर्णा प्रक्रिया डिजिटल-रूपेण, पारदर्शी-रीत्या तथा समयबद्ध-प्रणाल्या सञ्चालिता, येन कृषकः कार्यालय-परिभ्रमणात् मुक्तः अभवत्।

भावान्तर-योजना-२०२५ इत्यस्य सर्वाधिकं महत्त्वपूर्णं वैशिष्ट्यं तस्याः भूमौ प्रभावात्मकन क्रियान्वयनम् अस्ति। २८ दिसम्बर २०२५ तमे दिने मुख्यमन्त्री डॉ.मोहन-यादवः रतलाम-जनपदस्य जावरा-नगरात् आयोजिते राज्य-स्तरीय-कार्यक्रमे एक-क्लिक-माध्यमेन ३.७७ लक्ष-कृषकाणां धनागारेषु ८१० कोटि-रूप्यकाणां राशिं स्थानान्तरितवान्। एतत् केवलं धनप्रदानं न आसीत्, अपि तु कृषकान् प्रति शासनस्य दृढ-समर्थनस्य सन्देशः आसीत्। ये कृषकाः विपणीषु न्यून-मूल्ये सोयाबीनं विक्रीतवन्तः, तेषां कृते एषा राशि संजीवनी-तुल्या अभवत्।

वर्षे २०२५ एषा योजना एतदर्रथम् अपि केन्द्र-बिन्दु-रूपेण अभवत् यतः एषा सुदृढ-कृषि-विपणि-व्यवस्थायाः आधारं निर्माति। विपणी-इको-सिस्टम-इत्यस्य सुदृढीकरणाय, मूल्य-निर्धारण-निरीक्षणाय तथा न्यून-मूल्ये विक्रीत-उत्पादकस्य परीक्षणाय प्रशासनिक-व्यवस्था सक्रियीकृता। जनपदेषु नोडल-अधिकारिणां तथा सहायक-नोडल-अधिकारिणां नियुक्त्या एतत् सुनिश्चितं कृतं यत् कृषकस्य सह कस्यचित् स्तरस्य अन्यायः न भवेत्। बालाघाट-इव जनपदेषु विशेष-दायित्व-प्रदानम् अस्याः एव चिन्तन-दिशायाः उदाहरणम्।

मुख्यमन्त्री डॉ. मोहन-यादवः वीडियो-सम्मेलन-माध्यमेन सर्वान् जिलाधीशान् स्पष्टतया निर्देशितवान् यत् कृषकाणां उपजायाः सम्यक् मूल्य-प्राप्तिः सर्वोच्च-प्राथमिकता अस्ति। कस्यापि स्तरस्य अव्यवस्था न भवेत् तथा लाभः प्रत्यक्षं हितग्राहिणः पर्यन्तं एव उपगच्छेत्। मुख्यमन्त्रिणा अपि उक्तं यत् यथा धान-गेहूं-कृषकाणां परिश्रमस्य सम्पूर्णं मूल्यं सुनिश्चितं कृतम्, तथैव सोयाबीन-उत्पादक-कृषकाणां अपि सम्पूर्णः लाभः प्रदास्यते।

भावान्तर-योजनायाः कार्यप्रणाली कृषकाणां कृते अतीव सरलाऽस्ति तथा लाभप्रदा च। उदाहरणतया यदि कृषकस्य सोयाबीनं प्रति-क्विण्टलम् ४६०० रूप्यकाणि मूल्ये विक्रीयते, तर्हि न्यूनतम-समर्थन-मूल्यं ५३२८ रूप्यकाणि इत्यस्मात् शेषं ६२८ रूप्यकाणि प्रति-क्विण्टलम् शासनद्वारा भावान्तर-रूपेण प्रदीयन्ते। यदि विक्रय-मूल्यं राज्यस्य प्रतिशत-निश्चित-मूल्यादपि न्यूनं भवति, तदा अपि कृषकः न्यूनतम-समर्थन-मूल्यस्य तथा औसत-मॉडल-मूल्यस्य अन्तर-राशिं प्राप्नोति। सर्वासु परिस्थितिषु कृषकस्य हानिः न अनुमीयते। अनेन एव कारणेन प्रदेशस्य कृषकः अस्याः योजनायाः पुनः प्रवर्तनात् स्वं सुरक्षितं सम्मानितं च अनुभवति।

समग्रतया, वर्षे २०२५ भावान्तर-योजना मध्यप्रदेशस्य कृषि-परिदृश्यस्य मुख्य-केन्द्र-बिन्दुः अभवत्। एषा योजना कृषकस्य आत्मविश्वासं वर्धयति, भविष्य- योजनायाः आधारं दृढं करोति तथा कृषिं लाभकर-व्यवसाय-रूपेण स्थापितुं महत्त्वपूर्णं पग्घानं सिद्धा अस्ति। सोयाबीन-उत्पादक-कृषकाणां कृते एषा योजना नूनं वरदानात् न्यूनं नास्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता