राष्ट्रीय-स्वयंसेवक-संघस्य सरसंघचालकः डॉ.मोहन-भागवत: रायपुर-नगरम् आगतः, द्वयोः कार्यक्रमयोः सहभागितां करिष्यति
रायपुरम्, ३१ दिसम्बरमासः (हि.स.)।राष्ट्रीय-स्वयंसेवक-संघस्य सरसंघचालकः डॉ. मोहन-भागवत: बुधवासरे छत्तीसगढ-राज्यस्य राजधानीं रायपुर-नगरम् आगतः। सः अत्र द्वयोः कार्यक्रमयोः सहभागितां करिष्यति। छत्तीसगढे धर्मान्तरण-विषये, आदिवासी-समाजस्य ईसाई-समुदायेन
राष्ट्रीय स्वयंसेवक संघ के सरसंघचालक मोहन भागवत


रायपुरम्, ३१ दिसम्बरमासः (हि.स.)।राष्ट्रीय-स्वयंसेवक-संघस्य सरसंघचालकः डॉ. मोहन-भागवत: बुधवासरे छत्तीसगढ-राज्यस्य राजधानीं रायपुर-नगरम् आगतः। सः अत्र द्वयोः कार्यक्रमयोः सहभागितां करिष्यति।

छत्तीसगढे धर्मान्तरण-विषये, आदिवासी-समाजस्य ईसाई-समुदायेन सह वर्धमान-समस्याया: पृष्ठभूमौ संघ-प्रमुखस्य अयं प्रवास: राजनीतिक-समाजिक-दृष्ट्या अत्यन्तं महत्वपूर्णः इति मन्यते।

प्राप्त-सूचनानुसारं सरसंघचालकः डॉ.भागवत: अद्य प्रथमं रायपुर-एम्स-परिसरे आयोजिते युवा-सम्मेलन-कार्यक्रमे सहभागं करिष्यति। अत्र सः छात्र-छात्राभ्यः तथा यून: प्रति राष्ट्र-निर्माणे, सामाजिक-समरसतायां, सांस्कृतिक-मूल्येषु च स्व-विचारान् प्रस्तोष्यति।

एम्स-कार्यक्रमानन्तरं अपराह्णे ३ वादने डॉ.भागवत: रायपुरस्य अभनपुरे आयोजितं हिन्दू-सम्मेलनम् सम्बोधयिष्यति। अस्मिन् सम्मेलने रायपुर-बिलासपुर-धमतरी-सम्भागेभ्यः आगताः प्रायः पञ्चविंशतिसहस्रं स्वयंसेवकाः तथा विविध-हिन्दू-संघटनेभ्यः सम्बद्धाः कार्यकर्तारः सहभागिनः भविष्यन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani