Enter your Email Address to subscribe to our newsletters

शिमला, ३१ दिसम्बरमास: (हि.स.)।दिल्ली-स्थिते कर्तव्य-पथे २६ जनवरी २०२६ तमे दिने यदा गणतन्त्र-दिवस-पथसंचालनस्य भव्यं दृश्यं विश्वेन अवलोक्यते, तदा तस्मिन् हिमाचल-प्रदेशस्य वीरता, बलिदानं देशभक्तिश्च पूर्ण-गौरवेण प्रदर्शिताः भविष्यन्ति। पञ्चवर्षीयस्य दीर्घ-प्रतिक्षायाः अनन्तरं रक्षा-मन्त्रालयस्य विशेषज्ञ-समित्या हिमाचल-प्रदेशस्य झांकी मुख्य-गणतन्त्र-दिवस-समारोहाय अनुमोदिता अस्ति। एषा झांकी तेभ्य: वीर-सैनिकेभ्य: समर्पिता भविष्यति ये देश-रक्षणे स्वप्राणान् त्यक्तवन्तः। पञ्चवर्षानन्तरं गणतन्त्र-दिवस-समारोहे हिमाचल-प्रदेशस्य झांकी पुनः दृश्यते।
राज्यस्य भाषा-संस्कृति-विभागात् प्राप्त-सूचनानुसारं अस्य वर्षस्य झांकी-विषयः “हिमाचल-प्रदेशस्य शौर्य-पुरस्कार-प्राप्तवन्त:” इति निश्चितः। झांकी-माध्यमेन परमवीर-चक्रं, महावीर-चक्रं तथा अशोक-चक्र-पुरस्कृतानां हिमाचल-प्रदेशीयानां वीर-पुत्राणां शौर्यं बलिदानं च देश-विदेशयोः समक्षं प्रस्तूयते। संदेशः स्पष्टः अस्ति—पर्वतीय-राज्यं सन् अपि हिमाचल-प्रदेशः सर्वेषु कालेषु देश-रक्षणे अग्रणी-भूमिकां निर्वहन् आसीत्।
रक्षा-मन्त्रालयात् अनुमोदनं प्राप्य राज्यस्य भाषा-संस्कृति-विभागेन झांकी-निर्माणार्थं निविदा-प्रक्रिया आरब्धा अस्ति। चयनिता संस्था झांकीत्यस्य अभिकल्पना, कलात्मक-स्वरूपं तथा तकनीकी-मानकानुसारं निर्माण-कार्यं करिष्यति। झांकीमध्ये पारम्परिक-रङ्गानां, सैन्य-गौरवस्य आधुनिक-प्रस्तुतेः च सम्यक्-सन्तुलनं दृश्यते।झांकी-सह हिमाचल-प्रदेशस्य लोक-संस्कृति: अपि प्रदर्शिता भविष्यति। कर्तव्य-पथे “मेरा हिमाचलो बड़ा बांका” इति गीतस्य ध्वनिः निनादिष्यति, पारम्परिक-ढोल-नादश्च झांकीम् अधिकं सजीवं करिष्यति। एतत् संगीतं हिमाचलस्य स्वाभिमानं, वीरतां सांस्कृतिक-परिचयं च सूचयिष्यति।
हिमाचल-प्रदेशस्य झांकी अन्तिमवारं वर्षे २०२० तमे गणतन्त्र-दिवस-पराडे सम्मिलिता आसीत्, यदा “कुल्लू-दशहरा” इति विषयेन राज्यस्य प्रतिनिधित्वं कृतम्। तदनन्तरं अटल-टनल्-रोहताङ्ग, क्षेत्रीय-संस्कृति इत्यादिषु विविधेषु विषयेषु प्रस्तावाः प्रेषिताः, किन्तु अनुमोदनं न प्राप्तम्। अतः २०२६ तमे गणतन्त्र-दिवस-समारोहाय हिमाचल-प्रदेशस्य झांकी-चयनं राज्यस्य कृते महत्त्वपूर्णा उपलब्धिः मन्यते।
उल्लेखनीयम् अस्ति यत् हिमाचल-प्रदेशस्य सेनया सह घनिष्ठः सम्बन्धः अस्ति। अत्र ग्रामेभ्यः नगरैश्च बहुसंख्यकाः युवकाः सेनायां प्रविशन्ति तथा अत्यन्त-कठिन-परिस्थितिषु अपि स्व-शौर्यं प्रदर्शयन्ति। झांकीमध्ये एषा परम्परा, साहसात्मककार्याणि प्रतीकात्मक-रूपेण दर्शिताः भविष्यन्ति। हिमाचलस्य वीर-सैनिकानां चित्राणि, सैन्य-सम्मान-प्रतीकाः तथा कलात्मक-प्रस्तुत्या तेषां योगदानं राष्ट्रस्य समक्षं प्रस्तोष्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani