तिरुपरनकुंद्रम पर्वते दीपकज्वालनात् कश्चिदपि न अवरोद्धुमर्हः : धर्मेंद्र प्रधानः
केंद्रीय शिक्षा मंत्री सपरिवारम् अकरोण् मीनाक्षी सुंदरश्वरर मंदिरे अकरोत् दर्शनं पूजनं च मदुराई, 31 दिसंबरमासः (हि.स.)। केंद्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः अवदत् यत् तिरुपरङ्कुण्द्रमिति पर्वतस्य दीपमालायां दीपप्रज्वलनं कर्तुं कस्यचित् अवरो
धर्मेंद्र प्रधान


केंद्रीय शिक्षा मंत्री सपरिवारम् अकरोण् मीनाक्षी सुंदरश्वरर मंदिरे अकरोत् दर्शनं पूजनं च

मदुराई, 31 दिसंबरमासः (हि.स.)।

केंद्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः अवदत् यत् तिरुपरङ्कुण्द्रमिति पर्वतस्य दीपमालायां दीपप्रज्वलनं कर्तुं कस्यचित् अवरोधं कर्तुं अनुज्ञा नास्ति। अस्मिन् विषये केचन जनाः न्यायाधीशस्य आदेशं स्वीकारम् अकृत्वा राजनीतिकं व्यवहारं कुर्वन्ति।

बुधवारे केंद्रीयशिक्षामन्त्री प्रधानः मीनाक्षीमन्दिरे दर्शनं कृत्वा अत्र सामाजिकैर्माध्यमैः सह वार्तालापं कुर्वन् आसीत्। मन्त्री प्रधानः अद्य स्वपरिवारसहितं विश्वविख्यातं मदुरै-स्थितम् अरुल्मिगु-मीनाक्षी-सुन्दरेश्वर-मन्दिरं प्राप्तवान्, तत्र परिवारसहितं दर्शनपूजार्चने च कृतवान्। तस्य कृते विशेषव्यवस्था अपि कृतासीत्। तत्र आगत्य मन्दिरप्रबन्धनस्य पक्षात् केंद्रीयमन्त्रिणः स्वागतं कृतम्।

दर्शनोपरान्तं केंद्रीयमन्त्री प्रधानः सञ्चारमाध्यमभ्यः अवदत्— “वयम् काशी-तमिल्-सङ्गमं 4.0 सफलतया समापितवन्तः स्म। प्रधानमन्त्रिणो मार्गदर्शनेन एषः काशी-तमिल्-सङ्गमः कला-संस्कृत्योः प्राधान्यं दत्त्वा अग्रे प्रवर्तते।” सः अवदत्— “ह्यः अहं प्रसिद्धे रामेश्वरे स्वामिनः दर्शनं कृतवान्, अनन्तरं अद्य माता-मीनाक्षी-सुन्दरेश्वररयोः दर्शनस्य अवसरः लब्धः, तेन अहं अतीव प्रीणितोऽस्मि। प्रधानमन्त्री कला-संस्कृत्योः महत्त्वं दातुं कर्म करोति। राष्ट्रीयशिक्षानीत्यानुसारं प्रत्येकस्मिन् राज्ये मातृभाषायां शिक्षायाः व्यवस्था भवेत्।”

एकस्य प्रश्नस्य उत्तररूपेण सः अवदत्— “राष्ट्रियशिक्षानीत्यानुसारं तमिल्नाडुराज्ये केवलं तमिल्-भाषैव भवितव्या। वयं अपेक्षामः यत् प्रशासनं च तमिल्नाडु-सरकारापि तमिल्-भाषां प्राधान्येन स्थापयिष्यति। यदि विद्यार्थिदेशे शिक्षायाः महत्त्वं दत्तं भविष्यति तर्हि ते भविष्ये नूनं उच्चस्थानानि अधिकारपदानि च प्राप्स्यन्ति।”

तिरुपरङ्कुंद्रम्इति पर्वते दीपप्रज्वलनं प्रति पृष्टे प्रश्ने केंद्रीयमन्त्री अवदत्— “तिरुपरङ्कुण्ड्रं-विषये केचन जनाः न्यायाधीशस्य आदेशं स्वीकार्य न राजकीयहेतोः कार्यं कुर्वन्ति। मुख्यन्यायाधीशस्य निर्णयं नाङ्गीकृत्य तमिल्नाडु-सरकारा अस्य विषयस्य राजनीतिक्या दृष्ट्या अवलोकनं करोति—एतत् निन्दनीयम्।” ये जनाः तिरुपरङ्कुण्ड्रं पर्वते, यः हिन्दूनां कृते पवित्रतया आमानितं प्रज्वलनं निवारयन्ति, ते मूढाः सन्ति इति सः अवदत्। “भगवान् शिवः तादृशेभ्यः जनभ्यः पाठं शिक्षयति।” सः अपि अवदत्— “यथा ‘तिरुक्कुरल्’ ग्रन्थं तमिल्-भाषात् पृथक् कर्तुं न शक्यते, तथैव हिन्दूनां श्रद्धास्थानं यः तिरुपरङ्कुण्ड्रं पर्वतः, तत्र दीपप्रज्वलनं निवारयितुं अपि असंभवमेव।”

उल्लेखनीयम् यत् तिरुपरङ्कुण्ड्रं पर्वतः भगवान् मुरुगनस्य षट् पवित्रआश्रयेषु एकः अस्ति। अस्यां पर्वत्यां प्राचीनं शिलाशिल्पेन निर्मितं गुहान्तरालयं विद्यते। मन्दिरात् त्रिकिलोमीटरदूरे एकं दरगाह् अपि अस्ति। अस्य पर्वतस्य विषये विवादः न्यायालये लम्बितः अस्ति।

हिन्दुस्थान समाचार