Enter your Email Address to subscribe to our newsletters

लखनऊ, 31 दिसंबरमासः (हि.स.)।
उत्तरप्रदेशस्य परिवहन-राज्यमंत्रीः (स्वतन्त्रप्रभारः) दयाशंकरसिंहः बुधवासरे अवदत् यत् वर्तमाने परिवहन-निगमस्य द्विशत्-अशीतिं बस-स्थानकिभ्यः प्रतिवर्षं प्रायः पंचपञ्चाशत् कोटियात्रिभ्यः परिवहन-सेवा उपलभ्यते। यात्रिणां सुविधाया: सर्वोच्च-प्राथमिकतां कृत्वा नवान्वेषणस्य अन्तर्गते यात्रिभ्यः सुगम सुरक्षित उन्नत-सुविधानां कृते नीतिनिर्माणं कृत्वा सुविधाः समुन्नताः कर्तुं परिवहन-निगमस्य प्रमुखा प्राथमिकता अस्ति।
परिवहनमन्त्री सिटिजन-फर्स्ट-प्रयत्नस्य अन्तर्गतं प्रदेशस्य बस-स्थानकेषु यात्री-उन्मुख-सेवानां स्वच्छतायाः सुरक्षा-व्यवस्थायाश्च प्रभावी-रूपेण कार्यान्वयनाय निर्देशान् दत्तवान्। सः अवदत् यत् प्रवेशद्वारे यात्री-सहायता-डेस्कभाटक-सूची समय-सारिणी प्लेटफॉर्म-सूचना परिवाद-रक्षण-डेस्क च उपलब्धा सुनिश्चितव्या। हिन्दी-अङ्ग्लभाषयोः मार्ग प्लेटफॉर्मचिटिकागवाक्षः शौचालय निष्क्रमणादीनां संकेत-पट्टिकानाम् व्यवस्था सुनिश्चितव्या।
मन्त्रिणा निर्देशाः दत्ताः यत् डिजिटल-प्रदर्शन-पट्टिकाभिः वास्तविक-समये बसानां आगमन-प्रस्थान-सूचना प्रदेयत्वं सुनिश्चितव्यम्। दिव्याङ्ग-जनानां कृते शौचालयस्य समुचित-व्यवस्था सुनिश्चितव्या। तेषां कृते रैम्प् वहन-आसंदः च व्यवस्थायां सुनिश्चेयः।
परिवहनमन्त्रिणा निर्दिष्टम् यत् ए-श्रेणी-बस-स्थानकेषु वातानुकूलित-अवातानुकूलित-प्रतीक्षाकक्षाः तथा अन्येषु स्थानकेषु अवातानुकूलित-प्रतीक्षाकक्ष-सेवा यात्रिभ्यः प्रदेया। प्रतीक्षाकक्षेषु यात्रिस्थलेषु च पर्याप्तं उपवेशन-स्थानं सुखासना पङ्खाः दीपप्रबन्धश्च सुनिश्चितव्याः। जीपीएस्-द्वारा वाहनानां आगमन-प्रस्थानयोः स्वयमेव लेखनं सुनिश्चेतव्यम्।
सः अवदत् यत् यात्रिणां सुरक्षा अत्यन्तं महत्वपूर्णा। यात्रि-सुरक्षार्थं पुलिस-सहायता-केंद्रस्य कृते स्थानं प्रदेयम्। चिकित्सासेवा प्रथमोपचार-सेवा अपि अनिवार्यतया बस-स्थानके स्थापनीया।
परिवहनमन्त्रिणा विशेषतया स्वच्छतासम्बन्धिनिर्देशाः दत्ताः। सः अवदत् यत् शौचालय-स्वच्छता-मानकाः निरन्तर-स्वच्छता जलं साभून् सेनेटाइजर् दिव्याङ्गानुकूल-शौचालय-व्यवस्था च सुनिश्चितव्या। सार्वजनिक-शौचालयानाम् अपि स्वच्छता सुनिश्चितव्या। कचर-व्यवस्थापनं शुष्क-सदेह-कूर्पात्रयोः व्यवस्था नियमित-कचरा-सङ्ग्रहः वाहनद्वारा परिसराज-स्वच्छता च सुनिश्चेतव्या।
हिन्दुस्थान समाचार