उत्तरप्रदेशे सनातनस्य वैभवं पुनरागतम्, यूनां मध्ये काशी–मथुरा–अयोध्यायाः आकर्षणं वर्धितम्।
-नववर्षे यूनां मध्ये धार्मिक-पर्यटनस्य प्रवृत्तिः वर्धिता -काशी–मथुरा–अयोध्यायां लक्षशः युवान: आगच्छन्ति लखनऊ-नगरम्, ३१ दिसम्बरमासः (हि.स.)। नववर्षोत्सवस्य आयोजनाय पूर्वं युवानः प्रायः पाश्चात्य-संस्कृतेः प्रेरणया डिस्को-गृहाणि, अतिथि-गृहाणि, भोज
काशी पहुंचे श्रद्धालु


-नववर्षे यूनां मध्ये धार्मिक-पर्यटनस्य प्रवृत्तिः वर्धिता

-काशी–मथुरा–अयोध्यायां लक्षशः युवान: आगच्छन्ति

लखनऊ-नगरम्, ३१ दिसम्बरमासः (हि.स.)। नववर्षोत्सवस्य आयोजनाय पूर्वं युवानः प्रायः पाश्चात्य-संस्कृतेः प्रेरणया डिस्को-गृहाणि, अतिथि-गृहाणि, भोजनालयान् तथा गिरि-पर्यटन-स्थलानि प्रति गच्छन्ति स्म। परन्तु अस्मिन् वर्षे अस्मिन् विषये महत् परिवर्तनं दृष्टिगोचरं जातम्। मुख्यमन्त्रिणा योगी-आदित्यनाथेन नेतृत्वे पादोननववर्षपर्यन्ते उत्तरप्रदेशे धार्मिक-पर्यटन-स्थलानां यथोचितं विकासं कृत्वा यत् कार्यं सम्पन्नं, तस्य एव फलस्वरूपं अधुना यूनां बहुसंख्यया अवकाश-दिनेषु नववर्षस्य आरम्भं काशी, मथुरा–वृन्दावनम् तथा अयोध्यां गत्वा स्वेष्ट-देवताया: दर्शन-पूजनैः कुर्वन्ति।एषा एव उत्तरप्रदेशात् उद्भूता आध्यात्मिक-सांस्कृतिक-पुनर्जागरणस्य तरंग: अस्ति, यस्यां न केवलं प्रदेशस्य, अपि तु देशस्य सर्वेषु भागेषु स्थिताः युवान:—युवकाः युवतयश्च—नवेन उत्साहेन उल्लासेन च सम्मिलिताः सन्ति।पर्यटन-विभागस्य सूचनानुसारं, अस्मिन् वर्षे नववर्षात् पूर्वमेव प्रदेशस्य प्रमुखेषु तीर्थ-स्थलेषु—काशी, अयोध्या, मथुरा–वृन्दावनम् तथा प्रयागराजे—लक्षशः युव-पर्यटकाः आगताः सन्ति। अस्यां श्रेण्यां २९–३० दिसम्बर-दिने एव अयोध्यायां भगवान् श्रीरामस्य दर्शनार्थं पञ्चलक्षात् अधिकाः पर्यटकाः आगताः, यदा तु काशी-विश्वनाथ-कोरिडोर-क्षेत्रे गतत्रिदिनेषु दश-लक्षाधिकाः श्रद्धालवः दर्शन-पूजनं कृतवन्तः। मथुरायाम् अपि त्रिलक्षात् अधिकैः पर्यटकैः दर्शन-पूजनं कृतम्। एतेषु सर्वेषु पर्यटकेषु यूनां संख्या सर्वाधिकेति निर्दिष्टा। ३१ दिसम्बर तथा ०१ जनवरी-दिवसयो: अधिक-संख्यया श्रद्धालूनाम् आगमनस्य अनुमानं कृत्वा प्रशासनं विशेष-सुरक्षा-प्रबन्धान् कृतवान्, तथा सौविध्यर्थं मार्गदर्शिकाः अपि प्रकाशिताः।आङ्ग्ल-नववर्षोत्सवस्य धर्म-स्थलेषु आयोजनस्य एषः यून-प्रवृत्तिः सामाजिक-सञ्चार-माध्यमेषु अपि स्पष्टतया दृश्यते। ‘न्यू ईयर २०२६ इन अयोध्या’, ‘न्यू ईयर २०२६ इन काशी’ अथवा ‘स्पिरिचुअल न्यू ईयर’ इत्यादयः हैशटैगाः प्रचलन्ति। युवान: दर्शन-पूजनं कृत्वा मित्रैः परिवारजनैश्च सह आत्मचित्राणि (सेल्फी) प्रकाशितवन्तः। एषः एव प्रवृत्तिः गतवर्षे प्रयागराजे आयोजिते दिव्य-भव्ये महाकुम्भे अपि दृष्टा, यत्र देशस्य एव न, अपि तु विश्वस्य विविधेभ्यः कोणेभ्यः आगत्य श्रद्धालवः पर्यटकाश्च विश्व-अभिलेखं स्थापितवन्तः।काशी-विश्वनाथ-मन्दिरस्य मुख्य-कार्यपालक-अधिकारी विश्व-भूषण-मिश्रः अत्र विषये अवदत्—“सनातन-संस्कृतिः उत्सवस्य, उत्साहस्य, उल्लासस्य च आश्रय-स्थली अस्ति। विश्वस्य समस्ताः उत्सव-परम्पराः सनातन-मान्यतायां उत्कर्षं प्राप्नुवन्ति। लोक-उत्सवाः प्रायः तात्कालिक-सत्तायाः आचरणं प्रतिबिम्बयन्ति। अतः अद्यतन-काले भारतीयाः वा पाश्चात्याः उत्सवाः स्युः, सर्वत्र सनातन-आस्थायाः केन्द्रेषु श्रद्धालूनां प्रवाहः अभूतपूर्वः दृश्यते।”उल्लेखनीयं यत् मुख्यमन्त्रिणा योगी-आदित्यनाथेन अयोध्यायां राम-मन्दिर-उद्घाटनात् आरभ्य अनेकानि आयोजनानि कृतानि। तथैव वाराणस्यां काशी-विश्वनाथ-कोरिडोरस्य निर्माणं, मथुरा–वृन्दावनम्, तीर्थराज-प्रयागराजः, विंध्याचलम्, नैमिषारण्यम्, संभलः, मुजफ्फरनगर-स्थितं शुक्रतीर्थम् (शुक्रतालम्) इत्यादिषु प्रदेशस्य पुरातन-मन्दिराणां जीर्णोद्धारः सम्पन्नः। एतेन विशेषतः यूनां मध्ये सनातन-संस्कृतेः स्वपरम्परायाश्च प्रति नव-ऊर्जायाः संचारः जातः।पूर्वेषु शासन-कालेषु एतानि स्थलानि उपेक्षितानि आसन्, परन्तु अधुना प्रमुख-तीर्थ-धार्मिक-स्थलानां प्रति मार्ग, रेल तथा वायुमार्ग-संयोजनैः सह तत्र निवास-व्यवस्था, अतिथि-गृहाणि, भोजनालय-गतिविधयश्च विकसिताः। पर्यटन-संस्कृति-विभागाभ्यां समये समये आयोज्यमानाः दिव्य-भव्य-उत्सवाः अपि यूनां मध्ये सनातन-संस्कृतेः तीर्थ-धर्म-स्थलेषु आकर्षणं वर्धितवन्तः। मुख्यमन्त्रिणः एते प्रयत्नाः न केवलं प्रदेशे पर्यटन-विकासाय सहायकाः, अपि तु यून: स्व-सांस्कृतिक-मूलैः सह संयोजयितुम् अवसरं दत्तवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता