Enter your Email Address to subscribe to our newsletters

लखनऊ, 31 दिसंबरमासः(हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगिना आदित्यनाथेन वर्षस्य 2026 शुभारम्भ-प्रसङ्गे प्रदेशवासिनां प्रति हार्दिका अभिनन्दनानि शुभकामनाश्च दत्ताः। नूतनवर्षे प्रदेशजनानां सुखसमृद्ध्याः उत्तमस्वास्थ्यस्य उज्ज्वलभविष्यस्य च मंगलकामना कृताऽस्ति।स्वीय-शुभकामना-सन्देशे मुख्यमन्त्रणा बुधवासरे उक्तं यत् गतं वर्षम् उत्तरप्रदेशस्य कृते सुशासनस्य सुदृढ-न्यायव्यवस्थायाः आधारभूत-संरचना-विस्तारस्य निवेशस्य जीविका-सृजनस्य जनकल्याण-क्षेत्रे च महत्वपूर्ण-सिद्धेः वर्षम् आसीत्। प्रधानमन्तुः नरेन्द्रमोदिना प्रदत्त-मार्गदर्शनेन प्रदेशेन विकासस्य नवी गतिः प्राप्ता, योजनानां च लाभः समाजस्य अन्तिम-पुरुषपर्यन्तं प्रापितुं सुनिश्चितो जातः।
मुख्यमन्त्रिणा उक्तं यत् वर्षे 2026 सरकारस्य संकल्पः अधिकं स्पष्टः। विकसित-उत्तरप्रदेश 2047 इति परिकल्पनां साकारयितुं दृढसंकल्पेन अग्रे गच्छन्ती प्रदेश-सर्वकार ‘जीरो पावर्टी’ इत्यस्य लक्ष्यं केन्द्रे स्थाप्य 2026-वर्षं अन्त्योदय- सामाजिक-न्याय- सर्वसमावेशी-लोककल्याणस्य सशक्त-प्रतीकं कर्तुं प्रतिबद्धा अस्ति।
मुख्यमन्त्रिणा उक्तं यत् राज्य-सरकारा प्रदेशस्य आर्थिक-समृद्धिं युवानां कृते रोजगार-उद्यमितेः सृजनम् अन्नदाता-किसानानां सुख-समृद्धिः, नार्याः आत्मनिर्भरता, प्रत्येक-नागरिकस्य सुरक्षित-मान्य-जीवनम् इत्येते सर्वे अपि सर्वोच्च-प्राथमिकतया स्थाप्य कार्यं करिष्यति।
मुख्यमन्त्रिणा विश्वासः व्यक्तः यत् नूतनवर्षं 2026 प्रदेशस्य प्रत्येक-नागरिकस्य जीवनमध्ये नूतन-संभवनाः सशक्त-अवसरांश्च सृजिष्यति। सकारात्मक-चिन्तनम् सामाजिक-समरसता नागरिक-कर्तव्येषु सचेत- सहभागिता च यस्य आधारः, तेन उत्तरप्रदेशः विकास-सुशासन-लोककल्याण-यात्रां अधिकं सुदृढां करिष्यति।
हिन्दुस्थान समाचार