Enter your Email Address to subscribe to our newsletters

वाशिंगटन, ३१ दिसम्बरमास: (हि.स.)। अमेरिकादेशस्य स्वास्थ्य-मानवसेवा-विभागेन (एचएचएस) व्यापक-वंचना-आरोपान् उद्धृत्य मिनेसोटा-राज्याय प्रदेयः संघीयः बाल-संरक्षण-निधिः (बाल-परिचर्या-भुगतानम्) स्थगितः।
एचएचएस-विभागस्य उपसचिवः जिम ओ’नील: मङ्गलवासरे एक्सपटल-माध्यमेन अस्य निर्णयस्य घोषणां कृत्वा अवदत् यत् “मिनेसोटा-राज्ये एव न केवलं, अपि तु समग्रे देशे विशाल-प्रमाणे प्रकट-वंचना वर्तते। अस्माभिः धन-प्रदानम् अवरोधितम्। वंचना-परिशीलनं प्रचलति।”
सीबीएस-समाचार-प्रतिवेदनानुसारं, ओ’नील: एतां सूचनां दत्तवान्, यत्र सः एकं चलचित्रम् उद्धृतवान्। तस्मिन् कन्ज़र्वेटिव्-यूट्यूबर-निकशर्ली इत्येष: आरोपं कृतवान् यत्—निधिं गृह्णन्त: मिनेसोटा-राज्यस्य प्रायः द्वादश डे-केयर-केन्द्राणि वस्तुतः सेवां न प्रददति। ओ’नील: अवदत् यत्—चलचित्रे उक्तानां केन्द्राणां ज्ञानं विभागेन कृतम् अस्ति, तथा च राज्यात् तेषां विस्तृत-विवरणम् अपेक्षितम्।
राज्यीय-अभिलेखानुसारं, द्वयोः डे-केयर-केन्द्रयोः अपवादं विना अन्यानि सर्वाणि मान्यताप्राप्तानि सन्ति। मिनेसोटा-राज्यस्य राज्यपालः टिम वाल्ज-इत्यस्य प्रवक्त्रा निर्गत-वक्तव्ये उक्तम् यत् “राज्यपाला: बहूभ्य: वर्षेभ्य: वंचना-विरुद्धं संघर्षं कुर्वन्ति, परन्तु राष्ट्रपतिः तु वंचकान् कारागारात् बहिः निष्कासयति। वंचना गम्भीरः विषयः अस्ति; किन्तु अस्य विषयस्य राजनीतिकीकरणं न कर्तव्यम्। एतेन मिनेसोटा-जनानां हानिः भविष्यति। जन-सहाय्यं कुर्वतां सर्वकारी-कार्यक्रमाणां निधे: अवरोधः न करणीयः।”
ओ’नील: अपि अवदत् यत्—इदानीं देशव्यापि सर्वेषां प्रदानानां विषये, कस्यापि राज्याय धनं प्रेषणात् पूर्वं शपथपत्रम्, पंजिका, तथा छायाचित्रम् अपेक्ष्यते।
एचएचएस-द्वारा प्रेषिते एकस्मिन् चलचित्रमध्ये, विभागस्य प्रमुखः एलेक्स-एडम्स: अवदत् यत्—एडमिनिस्ट्रेशन फॉर चिल्ड्रन एण्ड फैमिलीज प्रतिवर्षं मिनेसोटा-राज्याय बाल-संरक्षण-निधिरूपेण प्रायः १८५ मिलियनडॉलर्स (भारतीय-मुद्रया १,६६१.२२ कोटि-रूप्यकाणि) प्रेषयति। अनेन अल्प-आय-परिवाराणां प्रायः २३,००० बालकानां सहायता क्रियते।
हिन्दुस्थान समाचार / अंशु गुप्ता