Enter your Email Address to subscribe to our newsletters

नाहन-नगरम्, ३१ दिसम्बरमासः (हि.स.)। हिमाचल-प्रदेश-लोक-सेवा-आयोगेन घोषितेषु प्रशासनिक-सेवा-परीक्षा-परिणामेषु सिरमौर-जनपदस्य राजगढ़-क्षेत्रस्य मेघा यत्र शीर्ष-स्थानं प्राप्तवती, तत्रैव सिरमौर-जनपदस्य हरिपुरधार-क्षेत्रस्य शीतला अपि स्व-परिश्रमेण महत्त्वपूर्णां उपलब्धिं प्राप्तवती अस्ति। शीतलायाः चयनं प्रतिष्ठिते जिला-नियन्त्रक-पदे अभवत्। एषा सफलता तेषां सर्वेषां यूनां कृते प्रेरणारूपा अस्ति, ये अभावेषु अपि महत: स्वप्नान् पश्यन्ति।
शीतला सिरमौर-जनपदस्य हरिपुरधार-क्षेत्रस्य कांदो-बाड़ोल-पञ्चायत्या: निवासिनी अस्ति। तस्याः पिता ओमप्रकाश-शर्मा जे.बी.टी. शिक्षकः अस्ति, माता कमलेश-देवी च गृहिणी अस्ति। शीतलायाः एषा उपलब्धिः न केवलं तस्याः परिवारस्य, अपि तु सम्पूर्ण-क्षेत्रस्य गौरवं वर्धितवती।
शीतलायाः सफलताया: विशेषं एतत् यत् एषा उच्चस्तरीय-परीक्षायै कस्यापि महानगर-स्थितस्य कोचिङ्-संस्थायाः आश्रयं न कृतवती। कोचिङ्-विनैव गृहे स्वयमेव रणनीतिं निर्माय आत्म-अध्ययनेन प्रशासनिक-सेवायां स्व-स्थानं सुनिश्चितवती।
शीतला अवदत् यत् एषः तस्याः चतुर्थः प्रयासः आसीत्, यस्मिन् सा सफलतां प्राप्तवती। अस्याः सफलताया: सम्पूर्णं श्रेयः सा स्व-मातापितृभ्याम् अर्पयति, यौ सदैव तां समर्थितवन्तौ।
शीतलायाः शैक्षणिकी-यात्रा तेषां सर्वेषां विद्यार्थिनां कृते प्रेरणास्रोतः अस्ति, ये राजकीय-शिक्षण-संस्थासु अध्ययनं कुर्वन्ति। तस्याः शिक्षायाः आधारः राजकीय-वरिष्ठ-माध्यमिक-पाठशालायां कोरग-स्थाने अभवत्, यतः सा मध्य-विद्यालय-पर्यन्तं प्रारम्भिक-शिक्षां समापितवती। ततः नाहन-नगरे दशमी-द्वादशी-परीक्षे उत्तीर्णा भूत्वा माध्यमिक-शिक्षां सफलतया पूर्णवती।
उच्च-शिक्षायाः मार्गे अग्रे गत्वा शीतला राजकीय-महाविद्यालये नाहन-नगरे प्रवेशं कृत्वा कला-संकाये स्नातक-उपाधिं प्राप्तवती। सीमित-साधनानां मध्ये अपि सा अध्ययनं निरन्तरं कृत्वा समाजशास्त्रे स्नातकोत्तर-उपाधिम् (एम.ए.) अपि अर्जितवती।
एवं शीतलायाः एषा सफलता परिश्रमस्य, आत्मविश्वासस्य तथा आत्म-अध्ययनस्य महत्त्वं स्पष्टतया दर्शयति।
हिन्दुस्थान समाचार / Dheeraj Maithani