वर्षस्य अन्तिम दिने घनकुज्झटिकायां शीतवाते च काशी विश्वनाथमंडपे आस्थायाः संमर्दः
—आंग्ल नववर्षमालक्ष्य मंदिरेषु घाटेषु च सुरक्षायाः व्यापकः प्रबन्धः वाराणसी, 31 दिसंबरमासः (हि.स.)। संवत्सरस्य 2025 अन्तिमदिने बुधवासरे उत्तरप्रदेशस्य धार्मिकनगरी काशी (वाराणसी) मध्ये घनकुज्झटिकायां तीव्रे शैत्ये चापि भक्तानां आस्था चरमावस्थाया
काशी विश्वनाथ मंदिर में श्रद्धालुओं की भीड़


काशी विश्वनाथ मंदिर में श्रद्धालुओं की भीड़


—आंग्ल नववर्षमालक्ष्य मंदिरेषु घाटेषु च सुरक्षायाः व्यापकः प्रबन्धः

वाराणसी, 31 दिसंबरमासः (हि.स.)।

संवत्सरस्य 2025 अन्तिमदिने बुधवासरे उत्तरप्रदेशस्य धार्मिकनगरी काशी (वाराणसी) मध्ये घनकुज्झटिकायां तीव्रे शैत्ये चापि भक्तानां आस्था चरमावस्थायां दृष्टा। श्रीकाशीविश्वनाथमन्दिरम् सहितं नगरस्य प्रमुखदेवालयेषु गङ्गाघाटेषु च दर्शनपूजनार्थं महान् जनसमूहः समाययौ। प्रभाते मङ्गलारत्येः पूर्वमेव श्रीकाशीविश्वनाथमन्दिरे झाङ्की-दर्शनाय भक्तानां दीर्घाः पङ्क्तयः जाताः।

देशस्य विविधान् राज्येभ्यः आगताः भक्ताः दशाश्वमेध-घाटं सहितं समीपस्थेषु घाटेषु च पवित्रायां गङ्गायां स्नात्वा “हरहर महादेव” इति जयघोषं कृत्वा बाबा-विश्वनाथस्य दरबारम् अगच्छन्। चतुष्पथ-बांसफाटक-प्रदेशे दर्शनपूजनाय कतारबद्धाः मध्यप्रदेशस्य गुना- बैढन-प्रदेशाभ्यां आगताः भक्ताः— विकास-साव्, सन्दीप-गोंड्, चन्दू-गोंड् च— “ऊँ नमः शिवाय, शुभं शुभं कुरु कुरु शिवाय नमः ऊँ, हे शिव कल्याणकारी प्रभो” इत्यादि घोषं कृत्वा अवदन् यत् ते संवत्सरस्य अन्तिमदिने आङ्ग्ल-नववर्षस्य प्रथमदिने च बाबा-विश्वनाथदर्शनपूजनार्थं वाराणसीं प्राप्ताः। तेषां विश्वासः अस्ति यत् वर्षान्ते कृतं दर्शनं समग्रं वर्षं शुभं मंगलमयं च करिष्यति। ते अवदन् यत् दर्शनकाङ्क्षया ते मङ्गलवासरस्य सायमेव काशीम् आगतवन्तः।

स्थानीय-सामाजिक-कार्यकर्तारः अजित्-सिंह्, सन्दीप-चौबे, प्रवीण-तिवारी इत्यादयः अवदन्— यत् श्रीकाशीविश्वनाथधामस्य नूतन-भव्य-रूपेण विकासानन्तरं भक्तानां संख्यायां निरन्तरं अभूतपूर्ववृद्धिः दृश्यते। एषा सनातन-संस्कृतेः सकारात्मक-सङ्केता। इदानीं जनाः गोवा-मुम्बई-मनाली-शिमला-इत्यादीनि पर्यटनस्थलानि विहाय काशी-अयोध्ये इत्येतयोः एव प्राधान्यं ददति।

प्रशासनिक-स्रोतसाम् अनुसारम् क्रिस्मस-दिनात् एकदिनपूर्वं आरभ्य प्रतिदिनं चत्वारि-लक्षाधिकाः भक्ताः काशीम् आगच्छन्ति। मन्दिर-गल्यः आरभ्य गङ्गाघाटान् यावत् भक्तानां प्रवाहः दृश्यते। प्रचण्ड-शीतलहर्यपि भक्तसंख्यायां निरन्तरा वृद्धिरेव दृश्यते। गङ्गायां नौकायनस्य विषयेऽपि स्पर्धा प्रचलति। भक्तानां घनभीडं दृष्ट्वा जिलाप्रशासनena व्यापकाः सुरक्षा-व्यवस्थाः कृताः। मङ्गलवासरस्य सायं विलम्बेन पुलिस्-आयुक्तः मोहित-अग्रवाल् श्रीकाशीविश्वनाथमन्दिरपरिसरस्य निरीक्षणं कृत्वा सुरक्षा-व्यवस्थायाः अवलोकनं च कृतवान्, सम्बद्धाधिकारिभ्यः आवश्यकानि निर्देशान् दत्तवान्।

---------------

हिन्दुस्थान समाचार