मुख्यमन्त्री डॉ. यादवः नौसैनादिने नौसैनिकानां शौर्यम् अभिवाद्य प्रणतवान्
भाेपालम्, 4 दिसंबरमासः (हि.स.)। अद्य गुरुवासरे भारतीय-नौसैनादिवसः अस्ति। भारतदेशे नौसैनादिवसः नौसैनिकानां कीर्तिं गौरवं च प्रकाशयितुम् आचर्यते। भारतीय-नौसेना राष्ट्रस्य सैन्यशक्तेः अतीव महत्त्वपूर्णः अङ्गः अस्ति, सा एव देशस्य सागरसीम्नः रक्षणे प्रम
मुख्यमंत्री डॉ. यादव ने नौसेना दिवस पर नौसैनिकों के शौर्य को किया नमन


भाेपालम्, 4 दिसंबरमासः (हि.स.)। अद्य गुरुवासरे भारतीय-नौसैनादिवसः अस्ति। भारतदेशे नौसैनादिवसः नौसैनिकानां कीर्तिं गौरवं च प्रकाशयितुम् आचर्यते। भारतीय-नौसेना राष्ट्रस्य सैन्यशक्तेः अतीव महत्त्वपूर्णः अङ्गः अस्ति, सा एव देशस्य सागरसीम्नः रक्षणे प्रमुखं दायित्वं निर्वहति। भारतस्य अन्ताराष्ट्रिय-संबन्धान् सुदृढीकरणे अपि भारतीय-नौसेनायाः विशिष्टं योगदानम् अस्ति। भारतीय-नौसैनादिवसस्य अवसरस्य निमित्तम् मध्यमप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवेन नौसेनायाः वीर-जनान् प्रणम्य सम्मानिताः।

मुख्यमन्त्री डॉ. यादवेन सामाजिक-माध्यमे ‘एक्स्’ इत्यत्र स्व-शुभकामना-सन्देशे उक्तम्— “नौसैनादिवसस्य हार्दिकाः अभिनन्दनाः शुभाशंसाः च। एषः प्रत्येकस्य भारतवासिनः कृते गौरवस्य विशेषः अवसरः अस्ति। समुद्रस्य विस्तीर्णासु सीमासु राष्ट्ररक्षणाय समर्पितायाः नौसेनायाः निष्ठा वन्दनीया अस्ति। ये अपि राष्ट्रार्थं सर्वस्वं बलिदत्तवन्तः सैनिकाः, तेषां चरणयोः अहं प्रणामं करोमि।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता