Enter your Email Address to subscribe to our newsletters

रायपुरम्, 4 दिसंबरमासः (हि.स.)। मुख्यमंत्री विष्णुदेवसायः अद्य गुरुवासरे बलौदाबाजारजनपदस्य सुहेला-तहसीलमुख्यालये स्थिते दुर्गोत्सव-मैदाने आयोजिते लोकार्पण-भूमिपूजन-कार्यक्रमे मुख्यातिथिरूपेण सहभागिता करिष्यति।
अस्मिन्नवसरे मुख्यमंत्री जनपदवासिभ्यः एकोनपञ्चविंशतिशतकोट्यधिक-रूप्यक-मूल्ययुक्तानां विकासकार्यानां सौगातम् दास्यति। तत्र एकचत्वारिंशदधिक-कोटीरूप्यक-मूल्यानां चतुर्नवत्यधिकानां कार्याणां लोकार्पणम्, तथा शतद्वयधिक-पञ्चाशदधिक-कोटीरूप्यक-मूल्यानां अशीत्यधिकानां कार्याणां भूमिपूजनम् समाविष्टम्।
उपमुख्यमंत्री अरुणसावः कार्यक्रमस्य अध्यक्षत्वं करिष्यति। जनपदस्य प्रभारी तथा आरोग्यमन्त्री श्यामबिहारी जायसवालः, राजस्वमन्त्री टङ्कारामवर्मा च अतिविशिष्टातिथयः भविष्यति। रायपुरसांसदः बृजमोहनअग्रवालः, जाङ्गगीर्–चम्पा-सांसदः कमलेशजाङ्गडे, पूर्वविधानसभाध्यक्षः गौरीशङ्करअग्रवालः च स्थानीयजनप्रतिनिधिसहिताः विशिष्टातिथयः भविष्यति।
हिन्दुस्थान समाचार