एसआइआर् निरिक्षणे “शून्यमृत,द्विकृत अथवा स्थानान्तरित-मतदातृयुक्ताः” मतदाताकेन्द्राः अधुना केवलं २९ एव।
कोलकाता, ४ दिसम्बरमासः (हि.स.)। पश्चिमबङ्गराज्ये प्रवर्तमाने विशेषसघनपुनरीक्षणाभियाने (एस्-आइ-आर) तेषां मतदाताकेन्द्राणां संख्यायां महद् परिवर्तनं दृष्टम्, येषु न मृतमतदाता, न द्विनाममतदाता, न च स्थानान्तरितमतदाता आसीत्। बुधवासरसायङ्काले एषा संख्या
एसआइआर् निरिक्षणे “शून्यमृत,द्विकृत अथवा स्थानान्तरित-मतदातृयुक्ताः” मतदाताकेन्द्राः अधुना केवलं २९ एव।


कोलकाता, ४ दिसम्बरमासः (हि.स.)। पश्चिमबङ्गराज्ये प्रवर्तमाने विशेषसघनपुनरीक्षणाभियाने (एस्-आइ-आर) तेषां मतदाताकेन्द्राणां संख्यायां महद् परिवर्तनं दृष्टम्, येषु न मृतमतदाता, न द्विनाममतदाता, न च स्थानान्तरितमतदाता आसीत्। बुधवासरसायङ्काले एषा संख्या सम्भूत्वा केवलं २९ अभवत्। एषः एवाभिलेखः सोमवासरसायङ्काले २२०८ आसीत्, मङ्गलवासरसायङ्काले च ४८० अवशिष्टः।

सोमवासरसायङ्काले राज्ये एते २२०८ मतदाताकेन्द्राः चिन्हिताः आसन्, येषु कश्चन मृतः मतदाता, द्विनामकः मतदाता वा स्थानान्तरितः मतदाता नोपलभ्यते स्म। असामान्यरूपेण वृद्धा इयं संख्या इति ज्ञात्वा निर्वाचनायोगेन सम्बन्धिनः जनपदाधिकारीणः विस्तीर्णप्रतिवेदनं याचितम्।

जनपदाधिकारीभिः चतुर्विंशतिहोराभ्यन्तरे नूतनं प्रतिवेदनं प्रेषिते, मङ्गलवासरसायङ्काले एषा संख्या सम्भूत्वा ४८० अभवत्। किन्तु आयोगः तेनापि न तुष्यन् पुनरपि सघनपरिक्षणस्य आज्ञापत्रं दत्तवान्।नूतनसमिक्षायां बुधवासरसायङ्काले संख्या पुनरपि न्यूनत्वम् अगच्छत्, महत् पतनं कृत्वा केवलं २९ अवशिष्टा। आयोगस्य अद्यतनदत्तांशानुसारं दक्षिण-चतुर्विंशतिपरिवरणे सर्वाधिकपतनं दृष्टम्, यत्र सोमवासररात्रौ ७६० मतदाताकेन्द्राः भवन्ति स्म, येषु कश्चनमृतः, द्विनामकः अथवा स्थानान्तरितमतदाता नासीत्। बुधवासरसायङ्काले एषा संख्या केवलं २० अभवत्।

राज्ये विपक्षदलीयाः भारतीयजनतापक्षस्य नेतारः वदन्ति—“गत ३८ होराषु यथा आलेखेषु द्रुतं पतनं जातम्, तेन गुरुवासरसायङ्कालपर्यन्तं अयं आलेखं शून्यं भविष्यति इति अनुमानयितुं शक्यते।”

निर्वाचनायोगस्य पुनःपुनः समीक्षा तथा मतदाताकेन्द्रस्तरीय-निरीक्षणं इदं सूचयति यत् मतदातासूच्याः शुद्धता दृढतया स्थाप्यते। किन्तु आदौ यत् बृहत्संख्या प्रकाशिता ततः परं यत् निरन्तरं न्यूनत्वम् उपजायते, तस्मात् सम्पूर्णप्रक्रियायाः विषये संशयाः उत्पद्यन्ते यत् राज्ये सर्वत्रैव कुतोऽपि कृत्रिमानि नामानि सूचौ योजितानि स्युः। तादृशे स्थितेः एस्-आइ-आर करणस्य न करणस्य वा कोऽपि औचित्यभेदः न दृश्यते।

हिन्दुस्थान समाचार