Enter your Email Address to subscribe to our newsletters

चेन्नईमासः, ४ दिसम्बरमासः(हि.स)। प्रसिद्धः चलच्चित्रनिर्माता ए.वी.एम. सरवणनः गुरुवासरे प्रातः पञ्चवादने चेन्नईनगरे 86 वर्षीयायुः दिवं गतः। अद्य तस्य अन्त्येष्टि: भविष्यति। तस्याभिमानिनां अन्तिमदर्शनार्थं तस्य पार्थिवशरीरं तस्यैव चलच्चित्रशालामध्ये स्थाप्यते स्म। वरिष्ठः चित्रनिर्माता ए.वी.एम. सरवणनः दिवं गतः। ए.वी.एम. संस्थाया आधारेण सः तेलुगु,कन्नड,हिंदी-भाषासु प्रमुखैः निर्देशकैः अभिनेतृभिश्च सह नानाविधानि चलचित्राणि निर्मितानि। तस्य निधनं तमिलचलच्चित्रजगतः महती हानिः मन्यते। तमिलनाडुप्रादेश-सर्वकारस्य कलामणिपुरस्कारं, पुडुचेरी-सर्वकारस्य पुरस्कारम्, अन्ये च बहवः सन्मानाः तेन लब्धाः। तस्य स्नेहिनः, बान्धवाः, चलच्चित्रक्षेत्रस्य व्यक्तयः, सामान्यजनाश्च अन्तिमदर्शनं कर्तुं श्रद्धाञ्जलिं च निवेदयितुं सरवणनस्य चलच्चित्रालयस्य तृतीयतले तद्शरीरं स्थाप्यते स्म। तस्य बान्धवानां वचनेन अद्यैव तस्य अन्त्येष्टि: भविष्यति।
हिन्दुस्थान समाचार