देहलीनगरस्य प्रदूषणस्य वर्धमानस्तरम् प्रति विपक्षसङ्घस्य नेतारः संसद्-परिसरे प्रदर्शनम् अकुर्वन्।
नवदेहली, 4 दिसंबरमासः (हि.स.)। देहलीनगरस्य वर्धमानप्रदूषणम् दमघोंटुक-वायुप्रसङ्गं च दृष्ट्वा विपक्षीय-इण्डी-सङ्घस्य नेतारः गुरुवासरे संसद्-भवनपरिसरे स्थिते मकरद्वारे विरोधप्रदर्शनम् अकुर्वन्। अस्मिन् प्रदर्शनकार्ये काङ्ग्रेस्-अध्यक्षः मल्लिकार्जुन
संसद के मकत द्वार पर प्रदर्शन करते विपक्षी सांसद


नवदेहली, 4 दिसंबरमासः (हि.स.)। देहलीनगरस्य वर्धमानप्रदूषणम् दमघोंटुक-वायुप्रसङ्गं च दृष्ट्वा विपक्षीय-इण्डी-सङ्घस्य नेतारः गुरुवासरे संसद्-भवनपरिसरे स्थिते मकरद्वारे विरोधप्रदर्शनम् अकुर्वन्।

अस्मिन् प्रदर्शनकार्ये काङ्ग्रेस्-अध्यक्षः मल्लिकार्जुनः खरगे, काङ्ग्रेस्-संसदीयदलाध्यक्ष्या सोनिया गाँधी, काङ्ग्रेस्-महासचिवा प्रियंका गाँधी, के.सी. वेणुगोपालः, लोकसभायां काङ्ग्रेस्-द्वितीयनायकः गौरवः गोगोई इत्येतेषां सहितानां अनेकानां दलानां वरिष्ठनेतॄणाम् सहभागः आसीत्। विपक्षीयनेतारः देहल्यां निरन्तरं वर्धमानस्य प्रदूषणसमस्यायाः विषये हस्तयोः पोस्टर्-बैनर् च धारयन्तः विरोधं प्रकटितवन्तः।

---------------

हिन्दुस्थान समाचार