प्रधानमन्त्रिणा नौसेनादिने शुभाशंसाः दत्ताः, तथा नौसेनाकर्मिणः अदम्यसाहसस्य दृढसङ्कल्पस्य च पर्यायः इति उक्तम्
नवदेहली, 04 दिसंबरमासः (हि.स.)। नौसेनादिने गुरुवासरे प्रधानमन्त्री नरेन्द्रमोदिनाः नौसेनाकर्मिणः अभिनन्द्य उक्तम् यत् इदानीं वर्षेषु अस्माकं नौसेनया आत्मनिर्भरता-आधुनिकीकरणयोः उपरि विशेषं ध्यानं प्रदत्तम्। अस्य फलरूपेण अस्माकं सुरक्षा-व्यवस्था अधिक
नौसेना दिवस


नवदेहली, 04 दिसंबरमासः (हि.स.)। नौसेनादिने गुरुवासरे प्रधानमन्त्री नरेन्द्रमोदिनाः नौसेनाकर्मिणः अभिनन्द्य उक्तम् यत् इदानीं वर्षेषु अस्माकं नौसेनया आत्मनिर्भरता-आधुनिकीकरणयोः उपरि विशेषं ध्यानं प्रदत्तम्। अस्य फलरूपेण अस्माकं सुरक्षा-व्यवस्था अधिकं सुदृढा जाताऽस्ति।

प्रधानमन्त्रिमोदिना एक्स-पोस्ट् इत्यत्र नौसेनाकर्मिणः प्रति शुभाशंसाः दत्वा लिखितम्—

“अस्माकं नौसेना अदम्यसाहसस्य दृढसङ्कल्पस्य च पर्यायः। ते अस्माकं तटानां रक्षणं कुर्वन्ति, अस्माकं सामुद्रिकहितान् च संरक्षन्ति। अहं तस्याः दिव्यायाः दीपावलोः अनुभवं न कदापि विस्मरिष्यामि, या मया आई.एन.एस.-विक्रान्ते नौसेनाकर्मिभिः सह आचरिता। भारतीयनौसेनायै तेषां भविष्यत्-प्रयत्नेषु शुभाशंसाः।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता