Enter your Email Address to subscribe to our newsletters


नवदेहली, 04 दिसंबरमासः (हि.स.) प्रधानमन्त्री नरेन्द्रमोदिनाः गुरुवासरे अन्ताराष्ट्रिय-चित्रकदिने चित्रकस्य संरक्षणाय समर्पितान् सर्वान् वन्यजीव-प्रेमिणः संरक्षणवादिनश्च अभिनन्दितवन्तः। मोदिना ‘एक्स’ इत्यत्र लिखितम्—“त्रिवर्षपूर्वम् अस्माकं सर्वकारेण अस्य आश्चर्यजनकस्य मृगस्य संरक्षणाय तस्य च प्राकृतिक-पर्यावरणस्य पुनर्स्थापनाय ‘प्रोजेक्ट्-चित्रक’ नाम योजना आरब्धा आसीत्, यस्मिन् सः सत्यमेव पुष्येत्, विकसितश्च भवेत्। एषा नष्टां पारिस्थितिकीं विरासतं पुनर्जीवयितुं तथा अस्माकं जैवविविधतां सुदृढीकर्तुं कृतः प्रयासः आसीत्।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता