Enter your Email Address to subscribe to our newsletters


संघकार्यस्य पंचपरिवर्तनस्य पत्रकम्—प्रत्येकं गृहेषु वितरन्ति कार्यकर्तारः
लखनऊनगरम्,04 दिसम्बरमासः (हि.स.)। शताब्दिवर्षस्य उपलक्ष्ये राष्ट्रिय-स्वयंसेवक-संघस्य कार्यकर्तारः अधुना गृह-सम्पर्क-अभियाने प्रवृत्ताः सन्ति। संघस्य स्वयंसेवकाः गृहात् गृहम् गत्वा भारतमातुः चित्रं पत्रकं च निःशुल्कं वितरन्ति। एतदतिरिक्तं संघसम्बद्धा ग्रन्थाः अत्यल्प-मूल्येन जनानां प्रदीयन्ते। “संघ–शताब्दीवर्षः : संघयात्रा — संगठनं सेवा च शतवत्सराः” इति पुस्तकं केवलं दश-रूप्यक-मूल्ये दीयते।
प्रान्त-प्रचार-प्रमुखः डॉ. अशोक-दुबे अवदत् यत् अवध-प्रान्ते ४० लक्ष-गृहेषु सम्पर्क-लक्ष्यं निश्चितम् अस्ति। अस्मिन् महासम्पर्क-अभियाने प्रायः ८० सहस्र कार्यकर्तारः प्रवृत्ताः सन्ति। गृह-सम्पर्क-अभियानं २१ दिसम्बर-तारिखपर्यन्तं प्रवर्तिष्यते। विशेष-सम्पर्कार्थं प्रबुद्धजनानां टोल्यः अपि निर्मिताः। हिन्दू-समाजस्य प्रतिष्ठित-व्यक्तिषु, सोसाइटी-क्षेत्रेषु, बहु-मञ्जिला-भवनेषु च सम्पर्कार्थम् विशेष-टोली नियुक्ता। एवं मठ–मन्दिर–गुरुद्वार-प्रदेशेषु सम्पर्काय अपि टोली-रचना कृता।
लखनऊ-विभागे ४९ नगरानि, ४१३ बस्तयः, १६५२ उपबस्तयः सन्ति। बस्तिषु उपबस्तिषु च सम्पर्कार्थम् त्रयः–त्रयः सक्षम-कार्यकर्तारः योजिताः। एतेषु सर्वेषु बस्ति–उपबस्तिषु सम्पर्काय ४९५६ टोली निर्मिताः, यस्मिन् १४८६८ कार्यकर्तारः सन्निहिताः। एते सर्वे कार्यकर्तारः लखनऊ-नगरस्य गृहं गृहम् गत्वा सततं सम्पर्ककार्यं कुर्वन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता