Enter your Email Address to subscribe to our newsletters

नवदेहली, ४ दिसम्बरमासः। रूसस्य राष्ट्रपतिः व्लादिमीरपुतिनः गुरुवासरे भारतप्रवासे आगच्छति। सः ४–५ दिसम्बरमासयोः भारतस्य अधिकृतयात्रां करिष्यति। प्रायः 30होरानां प्रवासकाले पुतिनः प्रधानमन्त्रीनरेन्द्रमोदिनाः सह २३तमं भारतरूस द्विपक्षीयशिखरसमेलनम् आचरिष्यति। चतुर्षु वर्षेषु प्राप्ते अन्तराले पुतिनः पुनः भारतं आगच्छति। सः २०२१ तमे वर्षे भारतरूसवार्षिकसमावेशे भागग्रहणाय आगतः आसीत्।
राष्ट्रपतिः पुतिनः ४ दिसम्बरमासस्य सायं प्रायः सप्तवादने देहल्यां आगमिष्यति। प्रधानमन्त्री मोदी ७ लोककल्याणमार्गे तस्य सम्मानार्थं निजं भोजनोत्सवं आयोजितुं भविष्यन्ति।
रूसराष्ट्रपतिप्रवासाय निश्चिते कार्यक्रमे निर्दिष्टं यत् ५ दिसम्बरमासस्य पुतिनमोदिनोः मध्ये मुख्याः संधयः निष्पद्यन्ते। शुक्रवासरे प्रातः राष्ट्रपतिभवने त्रिसेवागौरवरक्षकदलेन पुतिनस्य औपचारिकं स्वागतं भविष्यति। ततः सः राजघाटं गत्वा महात्मनः गान्धेः प्रति श्रद्धाञ्जलिं निवेदयिष्यति।
अनन्तरं प्रातः सुमारे एकादशवादने हैदराबादभवने प्रधानमन्त्री मोदीपुतिनौ २३तमं भारतरूस-शिखरसमेलनं करिष्यत:। अस्मिन् रक्षा, ऊर्जा, वाणिज्य, प्रौद्योगिकी, अन्तरिक्ष, रणनीतिकसहयोग इत्यादिक्षेत्रेषु महत्वपूर्णाः सन्धयः सम्भवन्ति। सभानन्तरं उभौ नेतारौ संयुक्तं वक्तव्यं प्रकाशयिष्यतः। भारतरूसयोः मध्ये अद्यावधि २२ शिखरसम्मेलनानि जातानि। गतवर्षे प्रधानमन्त्री मोदी मास्कोनगरे गच्छन् आसीत्, पुतिनः तु २०२१ तमे वर्षे अन्तिमवारं भारतं शिखरसमावेशार्थम् आगतः।
सायं चतुर्वादने उभौ नेतारौ भारतमण्डपे भारतरूस-व्यापारमंचं सम्बोधयिष्यतः, व्यापारजगतः प्रतिनिधिभिः सह मेलनापि भविष्यति। ततः सायं प्रायः सप्तवादने भारतस्य राष्ट्रपत्नी द्रौपदी मुर्मु, रूसराष्ट्रपतिः पुतिनस्य सम्मानार्थं राज्यभोजनस्य आयोजनं करिष्यति। पुतिनः ५ दिसम्बरमासस्य रात्रौ रूसं प्रतिनिवर्तिष्यति।
हिन्दुस्थान समाचार