Enter your Email Address to subscribe to our newsletters

— गङ्गातट, घाटानि, नगरस्य प्रमुखानि सांस्कृतिक-शैक्षिक-स्थलानि च द्रष्टुं कार्यक्रमः
वाराणसी, 04 दिसम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरे वाराणस्यां आयोजिते काशीतमिल्-सङ्गमने चतुर्थे संस्करणे भागग्रहणार्थं तमिळनाडुभूमेः द्वितीयोऽपि दलः काश्यां समागतः। अस्मिन् दले अध्यापकाः सम्मिलिताः आसन्। बुधवासर-रात्रौ विशिष्टेन रेलयानम् आगत्य मण्डुवाडीह-स्थिते बनारस-रेलस्थानके ते आगच्छन्। स्थानके अवतरन्तं क्षणे एव अतिथीनां डमरुवादनम्, पुष्पवर्षा, “हरहर महादेव” तथा “वणक्कं काशि” इत्यादि उद्घोषैः पारम्परिकरीत्या भव्यं स्वागतं कृतम्।
स्वागत-समारम्भे राज्य-राज्यमन्त्रि (स्वतन्त्रप्रभार) डॉ. दयाशंकर मिश्र ‘दयालु’ तथा वाराणस्य महापौरः अशोक-तिवारी स्वयमेव उपस्थितौ आसताम्। उभाभ्यां जनप्रतिनिधिभ्यां अतिथीनां काश्याः सांस्कृतिक-आत्मीयतां तमिल–काशी-संबन्धानां च प्राचीनतां निवेद्य अभिनन्दनं कृतम्।
तमिल्-अतिथिनां प्रीतिः
पारम्परिक-स्वागतं दृष्ट्वा तमिळ-दलस्य सदस्येषु विशेषः उत्साहः दृष्टः। केचन अवदन् यत्—काश्यां प्राप्ता आदर-गौरवयुक्ता आत्मीयता च तेषां जीवनस्य अविस्मरणीयं अनुभवम्। डमरुवादन-निनादेन समग्रं परिसरं शिवमयं जातम्, यत्र काशी–तमिळनाडुयोर् सांस्कृतिक-ऐक्यस्य स्पष्टा झलका दृष्टा।
कार्यक्रमस्य निश्चितानुसारं एते प्रतिनिधयः गुरुवासरे प्रातः श्रीकाशीविश्वनाथधामे दर्शनपूजनं करिष्यन्ति। ततः परं गङ्गातटं, घाटान्, नगरस्य सांस्कृतिक-शैक्षिक-धरोहरस्थानि च द्रक्ष्यन्ति। आयोजनसमितेः सदस्यैः उच्यते यत्, अतिथिषु काश्याः समृद्धं विरासत्, कला, संस्कृति, अध्यात्मच परिचयार्थं विशेष-कार्यक्रमाः सञ्चिताः।
तमिल्–काशी सम्बन्धस्य सुदृढीकरणाय प्रयत्नः
‘काशी तमिल्-सङ्गमम्’ नामकस्य अस्य महोत्सवस्य मुख्योद्देश्यः काश्याः तमिळनाडोश्च प्राचीन-सांस्कृतिक-धार्मिक-शैक्षिक-सम्बन्धानां पुनर्जीवनम् अस्ति। अस्य वर्षस्य कार्यक्रमः चतुर्थः संस्करणः अस्ति, यस्मिन् शिक्षणम्, संस्कृति, साहित्यं, कला, उद्योगः इत्यादि विविधक्षेत्रेषु संलग्नाः प्रतिनिधयः भागं गृह्णन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता