Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 05 दिसंबरमासः (हि.स.)
केन्द्रीयपर्यटनमन्त्रिणः संस्कृतिमन्त्रिणः आन्ध्रप्रदेशसर्वकारस्य च साहाय्येन विजयवाडानगरे दिसम्बरमासस्य षष्ठसप्तमदिनयोः कर्नाटकसंगीतसमारोहो यः कृष्णवेणी संगीता नीरजनम् द्विसहस्रपञ्चविंशतितमे वर्षे इति विश्वसंज्ञः तस्य तृतीयसंस्करणस्य आयोजनं भविष्यति। अयं द्विदिवसीयो महोत्सवः तेलुगुसंगीतपरम्पराणां समृद्धेः उत्सव इति विषयपरकः अस्ति। अस्य मुख्योद्देश्यः आन्ध्रप्रदेशस्य सांस्कृतिकपरिचयस्य सुदृढीकरणं संगीतपर्यटनस्य प्रोत्साहनं च।
आन्ध्रप्रदेशसरकारस्य पर्यटनसंस्कृतिमन्त्री कण्डुलदुर्गेशः शनिवासरे अस्य महोत्सवस्य उद्घाटनं करिष्यन्ति। अस्मिन् कार्यक्रमे तुङ्गलपल्लीवारि क्षेत्रय्य कलाक्षेत्रे अष्टनवतिअष्ट कलाकारैः समष्ट्या अष्टादश संगीतकार्यक्रमाः प्रस्तूयन्ते। आगामिनि रविवासरे प्रातः सप्तवादने दुर्गाघाटे पञ्चरत्नकृतिनां विशेषं प्रातःकालनिर्देश्यम् उपस्थापयिष्यन्ति यस्य नेतृत्वं मल्लाडी भ्रातरौ करिष्यत:। अस्मिन् प्रस्तुतीकरणे विजयवाडा गुंटूर इत्यादि सरकारीसंगीतमहाविद्यालयानां प्राध्यापकाः छात्राश्च भागं ग्रहीष्यन्ति।
अस्य महोत्सवास्य कालावधौ आन्ध्रप्रदेशस्य जी आई टगिति प्रसिद्धानां शिल्पवस्त्रप्रभृतिनां विशेषप्रदर्शनी अपि भविष्यति। अस्यां प्रदर्शने कोंडापल्ली क्रीडनकानि एटिकोपकानाम लाक्षाभाण्डानि उदयगिर्याः दारुकृतानि कटलरी पात्राणि चर्मनिर्मिताः काठपुतलिकाः च प्रदर्शयिष्यन्ति। मंगलगिरि वेंकटगिरि इत्यादीनि विख्यातानि हथकरघवस्त्राणि अपि दर्शयिष्यन्ते। एषा योजना वोकल फॉर लोकल इति राष्ट्रियदृष्टिकोणस्य समर्थनरूपा अस्ति यस्य फलस्वरूपं कारिगराः तन्तुवायिनः च प्रत्यक्षं दर्शकैः आपणैश्च सह संयोगं लभन्ते।
---------------
हिन्दुस्थान समाचार