Enter your Email Address to subscribe to our newsletters

तेलुगुश्रेष्ठनायकः नन्दमूरिबालकृष्णस्य भक्ता: तदा महान् आघातं अनुभूतवन्तः, यदा तस्य बहुप्रतीक्षितस्य चलचित्रस्य ‘अखण्ड 2’ इति विमोचनं सहसा निरुद्धम्। ५ दिसम्बरदिनाङ्के प्रकाशनं विधीयमानम् आसीत्, किन्तु विमोचनात् कतिपय-होरापूर्वमेव निर्मातृपक्षेण सामाजिकसञ्जाले उक्तं यत् अपरिहार्यकारणैः चलचित्रस्य प्रकाशनं अनिश्चितकालपर्यन्तं निवार्यते।
२०२१ तमे वर्षे प्रकाशितं ‘अखण्ड’ इति चलचित्रं भूरिसफलतां प्राप्तम्, तदनन्तरं तस्य द्वितीयभागस्य विषये जनमानसे अतिविशेषा उत्सुकता आसीत्। तस्मात् अन्तिमक्षणे विमोचनस्थगनं दर्शकानां प्रति अतीव खेदजनकं जातम्।
निर्मातॄणां आधिकारिकं वक्तव्यं
चलच्चित्रदलेन सामाजिकसञ्जाले भावनापूर्णं वक्तव्यं प्रकाशितम्—
“दुःखेन निवेदयामः यत् ‘अखण्ड 2’ अपरिहार्यस्थितेः कारणात् निर्दिष्टतिथौ न प्रकाशितुं शक्यते। अस्य प्रतीक्षार्थिनां दर्शकानां खेदं वयम् अवगच्छामः। स्थितेः समाधानार्थं वयं निरन्तरं प्रयतामहे।”
एतत्पूर्वं पूर्वप्रदर्शनम् अपि सहसा निरस्तम्, येन जनानां चिन्ता वर्धिता।
न्यायालयेन किमर्थं स्थगनम् आदेशितम्?
वार्ताः सूचयन्ति यत् मद्रासोच्चन्यायालयस्य आदेशेन चलचित्रप्रकाशनं निवारितम्। इरोस् इंटरनेशन मीडिया लिमिटेड इत्यनेन प्रदत्तायाः अपीलस्य संदर्भे न्यायालयेन प्रदर्शनं निवारितम्।
मध्यस्थताविवादः पुरातनः प्रकरणम् आसीत्, यत्र इरोस्संस्थायै निर्णयः अनुकूलः जातः तथा च संस्थायै २८ कोटि रूप्यकाणां (१४% ब्याजसहित) अदायम् आदेशितम्। यस्य अदायस्य न पूर्णं जातम्, अतः न्यायालयेन तावत्कालं ‘अखण्ड 2’ इत्यस्य विमोचनं निवार्यते इति आदेशः प्रदत्तः।
हिन्दुस्थान समाचार / Dheeraj Maithani