श्रीगुरुतेगबहादर साहिबस्य शहीदी–समारोहः सङ्घकार्यालये प्रति वर्षं भविष्यति इति निर्णीतम्
– समीक्षासभायां सिखसमाजेन संघस्य प्रान्तप्रचारकाय कौशलजी महोदयाय स्मृतिचिह्नं शालं च समर्पितम्। अयोध्या, 05 दिसम्बरमासः (हि.स.)। सिख–समाजस्य नवमस्य गुरोः श्रीगुरुतेगबहादरसाहिबस्य ३५० तमं शहीदीशताब्दीसमारोहस्य आयोजनस्थलत्वेन निर्दिष्टस्य संघकार्याल
शहीदी शताब्दी समारोह


– समीक्षासभायां सिखसमाजेन संघस्य प्रान्तप्रचारकाय कौशलजी महोदयाय स्मृतिचिह्नं शालं च समर्पितम्।

अयोध्या, 05 दिसम्बरमासः (हि.स.)। सिख–समाजस्य नवमस्य गुरोः श्रीगुरुतेगबहादरसाहिबस्य ३५० तमं शहीदीशताब्दीसमारोहस्य आयोजनस्थलत्वेन निर्दिष्टस्य संघकार्यालयस्य साकेतनिलयस्य सफल–आयोजनस्य सम्बन्धे समीक्षासभा शुक्रवारं गुरुद्वारे नजरबागे आयोजिताभूत्। अस्मिन् अवसरे सर्वेभ्यः राष्ट्रीयस्वयंसेवकसंघस्य प्रान्तप्रचारकस्य कौशलजी महोदयस्य मार्गदर्शनं प्राप्तम्।

अस्मिन् अवसरे सिखसमाजेन प्रान्त–प्रचारकाय कौशलजी महोदयाय श्रीराम–ललायाः स्मृतिचिह्नं शालं च विधिवत् समर्पितम्। सभायां सर्वैः शहीदी–शताब्दी–समारम्भः अस्मिन्नेव स्थाने प्रतिवर्षं अधिक–भव्यतया कार्यनीय इति निर्णयः कृतः; सह श्रीगुरु–तेगबहादरसाहिबसेवासमितेः अयोध्याक्षेत्रे सक्रियसमितेः गठनं अपि विचारितम्।

अस्मिन् अवसरे संघमहानगरप्रचारकः सुदीपः, संघप्रान्तसम्पर्कप्रमुखः गङ्गासिंहः, महानगरसहसम्पर्कप्रमुखः रविदासः, नजरबागगुरुद्वारस्य निशुः, अवधेशवर्मा, सरदारतेजिन्दरपालसिंहः, सरदारसतवीरसिंहः,गुरमीतसिंहः, सरदारजस्वीरसिंहः, सुरेन्द्रसिंहः, ऋषिसिंहः, सरदारदिलदारसिंहः, पवन–पाण्डेयः इत्येते च श्रीगुरु–तेगबहादर–साहिब–सेवा–समितेः समस्त–सदस्याः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता