Enter your Email Address to subscribe to our newsletters

-ओडीओपी' एवम् 'ओडीओसी' सम्मिल्य उत्तर प्रदेशः 'लोकल तः ग्लोबल' इति दिशि सम्पादयिष्यति नूतनगतिम् मुख्यमंत्री-ओडीओपी योजनां विस्तारीकर्तुं समयस्य अपेक्षा, सममेव प्रशिक्षणम्, ऋण सुविधायाः विस्तारे बलम्
लखनऊ, 5 दिसंबरमासः (हि. स.)।मुख्यमंत्री योगी आदित्यनाथः उक्तवान् यत् ब्राण्ड् उत्तरप्रदेशस्य रूपेण प्रतिष्ठिता एकजनपदैकउत्पाद योजना इदानीं ओडिओपि द्वितीयचरणेन स्वदेशीयानाम् उद्योगानां स्वरोजगारस्य निर्यातस्य च नूतनां उन्नतिं दातुं सज्जा भवति। तेनेदमपि उक्तं यत् अस्या योजनायाः प्रवर्तनं अधिकं व्यापकं व्यापारपरकं फलोन्मुखं च रूपं प्राप्नोति इति अपेक्षितम्।
शुक्रवासरे जातायां महत्वपूर्णायां सभायां मुख्यमन्त्रिणा उक्तं यत् परिवर्तमानस्य वैश्विकविपण्याः आधुनिकानां च आवश्यकतानां दृष्ट्या ओडिओपि कार्यक्रमः व्यापकतररूपेण उन्नेयः। ओडिओपि द्वितीयचरणस्य माध्यमेन सरकारस्य लक्ष्यं भवति यत् प्रदेशस्य पारम्परिकाः उत्पादाः विशालविपणिं निर्यातं च स्थिररोजगारस्य दृढं आधारं च भवन्तु।
तेन प्रत्येकस्य जनपदस्य विशिष्टां खाद्यपरम्परां एकजनपदएकव्यान्जन इति (ओडिओसि) अवधारणया संगठितरूपेण प्रतिष्ठापयितुं आवश्यकं इति अपि निर्दिष्टम्। असौ उक्तवान् यत् एषा योजना उत्तरप्रदेशस्य सांस्कृतिकात्मनः प्रतिबिम्बं वहति। प्रदेशस्य प्रत्येकभागे कस्याश्चन विशेषस्य व्यञ्जनपरम्परा वर्तते, अन्यत्र हल्वस्य ख्यातिः अन्यत्र दालमोठस्य। अतः सर्वेषां जनपदानां विशिष्टानां व्यञ्जनानां मापनं कृत्वा तेषां गुणवत्ता स्वच्छता पैकेजिङ्ग् ब्राण्डिङ्ग् विपणनं च सुदृढं कार्यम्।
मुख्यमन्त्रिणा उक्तं यत् ओडिओपि ओडिओसि च मिलित्वा उत्तरप्रदेशं स्थानीयात् वैश्विकपर्यन्तम् नीनयतः।
सभायां ज्ञापितं यत् संवत्सरे 2018 आरब्धा ओडिओपि योजना अद्य उत्तरप्रदेशस्य निर्यातस्य स्थानीयउद्योगानां च मेरुदण्डरूपेण विराजते। अद्यतनपर्यन्तं एकलक्षाधिकाः टूलकिट वितरिताः। षट्कोट्यधिकरूप्यकाणि ऋणरूपेण प्रदत्तानि। अष्टसहस्राधिकाः उद्यमिनः प्रत्यक्षविपणनसहाय्यं प्राप्तवन्तः। प्रदेशे त्रिंशत् संयोजितसुविधाकेन्द्राणि अनुमोदितानि चत्वारिंशदधिकाः ओडिओपि उत्पादाः जियोट्याग् प्राप्तवन्तः। एते उत्पादाः प्रतिष्ठितेषु ई-कॉमर्स पीठिकासु उपलब्धाः सन्ति तथा राज्यनिर्यातस्य पञ्चाशत् प्रतिशतात् अधिकं योगदानं कुर्वन्ति। राज्यस्य ओडिओपि योजनायै द्विवारं राष्ट्रीयपुरस्कारोऽपि प्राप्तः।
मुख्यमन्त्रिणा प्रतिपादितं यत् ओडिओपि द्वितीयचरणं केवलं योजना न, अपि तु स्थायिरोजगारस्य स्वदेशीयउद्यमस्य निर्यातस्य च उत्कर्षस्य शक्तिमतः साधनं भविष्यति। ये उद्यमिनः प्रथमचरणे उत्कृष्टं कार्यं कृतवन्तः तेषां व्यवसायविस्तारार्थं विशेषं ध्यानं दातव्यमिति तेन उक्तम्। योजनाः एवं प्रकारेण प्रवर्तनीयाः यत् तकनीकीं पैकेजिङ्ग् गुणवत्ता बाजारोन्नयनं च सर्वं सुदृढं रूपं प्राप्नुयात्।
ओडिओपि सम्बन्धितानि सामूहिकसुविधाकेन्द्राणि अधिकोपयोगीनि कर्तव्यानि इति अपि ज्ञापितम्। मुख्यमन्त्रिणा निर्देशितं यत् एतेषां केन्द्राणां विशिष्टविशेषज्ञैः सह सहभागिता भवेत्, येन लघ्वुद्यमिनः तकनीकीपरामर्शम् डिजाइन् पैकेजिङ्ग् उत्पादनसम्बद्धं च सर्वं मार्गदर्शनं एकदेश एव लभेरन्।
मुख्यमन्त्रिणा निर्दिष्टं यत् ओडिओपि उत्पादाः केवलं पारम्परिकविपण्यां न निरुध्यन्ताम्, अपि तु विशालखुद्रविपणिसञ्जालैः आधुनिकविपणिभिः च संबद्धाः स्युः। विविधेषु राज्येषु स्थाप्यमानेषु यूनिटी मॉल्सु ओडिओपि उत्पादानां विशेषकेन्द्राणि स्थापनीयानि इति तेनेदमपि उक्तम्। प्रतिष्ठितखुद्रवितरणसञ्जालैः सह संवादः कर्तव्यः यत् उत्तरप्रदेशस्य उत्पादाः प्रमुखरूपेण प्रदर्श्येरन्।
अन्ते सभायां उक्तं यत् ओडिओपि उत्पादानां गुणवत्ता ब्राण्डमूल्यं च उन्नयितुं तान् प्रतिष्ठितसंस्थाः प्रमाणीकृत्य वैश्विकविपण्यां विशिष्टपरिचयं दास्यन्ति।
---------------
हिन्दुस्थान समाचार